वैशम्पायन उवाच 001
ततस्ते नियतात्मान उदीचीं दिशमास्थिताः 001a
ददृशुर्योगयुक्ताश्च हिमवन्तं महागिरिम् 001c
तं चाप्यतिक्रमन्तस्ते ददृशुर्वालुकार्णवम् 002a
अवैक्षन्त महाशैलं मेरुं शिखरिणां वरम् 002c
तेषां तु गच्छतां शीघ्रं सर्वेषां योगधर्मिणाम् 003a
याज्ञसेनी भ्रष्टयोगा निपपात महीतले 003c
तां तु प्रपतितां दृष्ट्वा भीमसेनो महाबलः 004a
उवाच धर्मराजानं याज्ञसेनीमवेक्ष्य ह 004c
नाधर्मश्चरितः कश्चिद्राजपुत्र्या परन्तप 005a
कारणं किं नु तद्राजन्यत्कृष्णा पतिता भुवि 005c
युधिष्ठिर उवाच 006
पक्षपातो महानस्या विशेषेण धनञ्जये 006a
तस्यैतत्फलमद्यैषा भुङ्क्ते पुरुषसत्तम 006c
वैशम्पायन उवाच 007
एवमुक्त्वानवेक्ष्यैनां ययौ धर्मसुतो नृपः 007a
समाधाय मनो धीमान्धर्मात्मा पुरुषर्षभः 007c
सहदेवस्ततो धीमान्निपपात महीतले 008a
तं चापि पतितं दृष्ट्वा भीमो राजानमब्रवीत् 008c
योऽयमस्मासु सर्वेषु शुश्रूषुरनहङ्कृतः 009a
सोऽयं माद्रवतीपुत्रः कस्मान्निपतितो भुवि 009c
युधिष्ठिर उवाच 010
आत्मनः सदृशं प्राज्ञं नैषोऽमन्यत कञ्चन 010a
तेन दोषेण पतितस्तस्मादेष नृपात्मजः 010c
वैशम्पायन उवाच 011
इत्युक्त्वा तु समुत्सृज्य सहदेवं ययौ तदा 011a
भ्रातृभिः सह कौन्तेयः शुना चैव युधिष्ठिरः 011c
कृष्णां निपतितां दृष्ट्वा सहदेवं च पाण्डवम् 012a
आर्तो बन्धुप्रियः शूरो नकुलो निपपात ह 012c
तस्मिन्निपतिते वीरे नकुले चारुदर्शने 013a
पुनरेव तदा भीमो राजानमिदमब्रवीत् 013c
योऽयमक्षतधर्मात्मा भ्राता वचनकारकः 014a
रूपेणाप्रतिमो लोके नकुलः पतितो भुवि 014c
इत्युक्तो भीमसेनेन प्रत्युवाच युधिष्ठिरः 015a
नकुलं प्रति धर्मात्मा सर्वबुद्धिमतां वरः 015c
रूपेण मत्समो नास्ति कश्चिदित्यस्य दर्शनम् 016a
अधिकश्चाहमेवैक इत्यस्य मनसि स्थितम् 016c
नकुलः पतितस्तस्मादागच्छ त्वं वृकोदर 017a
यस्य यद्विहितं वीर सोऽवश्यं तदुपाश्नुते 017c
तांस्तु प्रपतितान्दृष्ट्वा पाण्डवः श्वेतवाहनः 018a
पपात शोकसन्तप्तस्ततोऽनु परवीरहा 018c
तस्मिंस्तु पुरुषव्याघ्रे पतिते शक्रतेजसि 019a
म्रियमाणे दुराधर्षे भीमो राजानमब्रवीत् 019c
अनृतं न स्मराम्यस्य स्वैरेष्वपि महात्मनः 020a
अथ कस्य विकारोऽयं येनायं पतितो भुवि 020c
युधिष्ठिर उवाच 021
एकाह्ना निर्दहेयं वै शत्रूनित्यर्जुनोऽब्रवीत् 021a
न च तत्कृतवानेष शूरमानी ततोऽपतत् 021c
अवमेने धनुर्ग्राहानेष सर्वांश्च फल्गुनः 022a
यथा चोक्तं तथा चैव कर्तव्यं भूतिमिच्छता 022c
वैशम्पायन उवाच 023
इत्युक्त्वा प्रस्थितो राजा भीमोऽथ निपपात ह 023a
पतितश्चाब्रवीद्भीमो धर्मराजं युधिष्ठिरम् 023c
भो भो राजन्नवेक्षस्व पतितोऽहं प्रियस्तव 024a
किन्निमित्तं च पतनं ब्रूहि मे यदि वेत्थ ह 024c
युधिष्ठिर उवाच 025
अतिभुक्तं च भवता प्राणेन च विकत्थसे 025a
अनवेक्ष्य परं पार्थ तेनासि पतितः क्षितौ 025c
वैशम्पायन उवाच 026
इत्युक्त्वा तं महाबाहुर्जगामानवलोकयन् 026a
श्वा त्वेकोऽनुययौ यस्ते बहुशः कीर्तितो मया 026c