जनमेजय उवाच 001
एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम् 001a
पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते 001c
वैशम्पायन उवाच 002
श्रुत्वैव कौरवो राजा वृष्णीनां कदनं महत् 002a
प्रस्थाने मतिमाधाय वाक्यमर्जुनमब्रवीत् 002c
कालः पचति भूतानि सर्वाण्येव महामते 003a
कर्मन्यासमहं मन्ये त्वमपि द्रष्टुमर्हसि 003c
इत्युक्तः स तु कौन्तेयः कालः काल इति ब्रुवन् 004a
अन्वपद्यत तद्वाक्यं भ्रातुर्ज्येष्ठस्य वीर्यवान् 004c
अर्जुनस्य मतं ज्ञात्वा भीमसेनो यमौ तथा 005a
अन्वपद्यन्त तद्वाक्यं यदुक्तं सव्यसाचिना 005c
ततो युयुत्सुमानाय्य प्रव्रजन्धर्मकाम्यया 006a
राज्यं परिददौ सर्वं वैश्यापुत्रे युधिष्ठिरः 006c
अभिषिच्य स्वराज्ये तु तं राजानं परिक्षितम् 007a
दुःखार्तश्चाब्रवीद्राजा सुभद्रां पाण्डवाग्रजः 007c
एष पुत्रस्य ते पुत्रः कुरुराजो भविष्यति 008a
यदूनां परिशेषश्च वज्रो राजा कृतश्च ह 008c
परिक्षिद्धास्तिनपुरे शक्रप्रस्थे तु यादवः 009a
वज्रो राजा त्वया रक्ष्यो मा चाधर्मे मनः कृथाः 009c
इत्युक्त्वा धर्मराजः स वासुदेवस्य धीमतः 010a
मातुलस्य च वृद्धस्य रामादीनां तथैव च 010c
भ्रातृभिः सह धर्मात्मा कृत्वोदकमतन्द्रितः 011a
श्राद्धान्युद्दिश्य सर्वेषां चकार विधिवत्तदा 011c
ददौ रत्नानि वासांसि ग्रामानश्वान्रथानपि 012a
स्त्रियश्च द्विजमुख्येभ्यो गवां शतसहस्रशः 012c
कृपमभ्यर्च्य च गुरुमर्थमानपुरस्कृतम् 013a
शिष्यं परिक्षितं तस्मै ददौ भरतसत्तमः 013c
ततस्तु प्रकृतीः सर्वाः समानाय्य युधिष्ठिरः 014a
सर्वमाचष्ट राजर्षिश्चिकीर्षितमथात्मनः 014c
ते श्रुत्वैव वचस्तस्य पौरजानपदा जनाः 015a
भृशमुद्विग्नमनसो नाभ्यनन्दन्त तद्वचः 015c
नैवं कर्तव्यमिति ते तदोचुस्ते नराधिपम् 016a
न च राजा तथाकार्षीत्कालपर्यायधर्मवित् 016c
ततोऽनुमान्य धर्मात्मा पौरजानपदं जनम् 017a
गमनाय मतिं चक्रे भ्रातरश्चास्य ते तदा 017c
ततः स राजा कौरव्यो धर्मपुत्रो युधिष्ठिरः 018a
उत्सृज्याभरणान्यङ्गाज्जगृहे वल्कलान्युत 018c
भीमार्जुनौ यमौ चैव द्रौपदी च यशस्विनी 019a
तथैव सर्वे जगृहुर्वल्कलानि जनाधिप 019c
विधिवत्कारयित्वेष्टिं नैष्ठिकीं भरतर्षभ 020a
समुत्सृज्याप्सु सर्वेऽग्नीन्प्रतस्थुर्नरपुङ्गवाः 020c
ततः प्ररुरुदुः सर्वाः स्त्रियो दृष्ट्वा नरर्षभान् 021a
प्रस्थितान्द्रौपदीषष्ठान्पुरा द्यूतजितान्यथा 021c
हर्षोऽभवच्च सर्वेषां भ्रातॄणां गमनं प्रति 022a
युधिष्ठिरमतं ज्ञात्वा वृष्णिक्षयमवेक्ष्य च 022c
भ्रातरः पञ्च कृष्णा च षष्ठी श्वा चैव सप्तमः 023a
आत्मना सप्तमो राजा निर्ययौ गजसाह्वयात् 023c
पौरैरनुगतो दूरं सर्वैरन्तःपुरैस्तथा 023e
न चैनमशकत्कश्चिन्निवर्तस्वेति भाषितुम् 024a
न्यवर्तन्त ततः सर्वे नरा नगरवासिनः 024c
कृपप्रभृतयश्चैव युयुत्सुं पर्यवारयन् 025a
विवेश गङ्गां कौरव्य उलूपी भुजगात्मजा 025c
चित्राङ्गदा ययौ चापि मणिपूरपुरं प्रति 026a
शिष्टाः परिक्षितं त्वन्या मातरः पर्यवारयन् 026c
पाण्डवाश्च महात्मानो द्रौपदी च यशस्विनी 027a
कृतोपवासाः कौरव्य प्रययुः प्राङ्मुखास्ततः 027c
योगयुक्ता महात्मानस्त्यागधर्ममुपेयुषः 028a
अभिजग्मुर्बहून्देशान्सरितः पर्वतांस्तथा 028c
युधिष्ठिरो ययावग्रे भीमस्तु तदनन्तरम् 029a
अर्जुनस्तस्य चान्वेव यमौ चैव यथाक्रमम् 029c
पृष्ठतस्तु वरारोहा श्यामा पद्मदलेक्षणा 030a
द्रौपदी योषितां श्रेष्ठा ययौ भरतसत्तम 030c
श्वा चैवानुययावेकः पाण्डवान्प्रस्थितान्वने 031a
क्रमेण ते ययुर्वीरा लौहित्यं सलिलार्णवम् 031c
गाण्डीवं च धनुर्दिव्यं न मुमोच धनञ्जयः 032a
रत्नलोभान्महाराज तौ चाक्षय्यौ महेषुधी 032c
अग्निं ते ददृशुस्तत्र स्थितं शैलमिवाग्रतः 033a
मार्गमावृत्य तिष्ठन्तं साक्षात्पुरुषविग्रहम् 033c
ततो देवः स सप्तार्चिः पाण्डवानिदमब्रवीत् 034a
भो भो पाण्डुसुता वीराः पावकं मां विबोधत 034c
युधिष्ठिर महाबाहो भीमसेन परन्तप 035a
अर्जुनाश्विसुतौ वीरौ निबोधत वचो मम 035c
अहमग्निः कुरुश्रेष्ठा मया दग्धं च खाण्डवम् 036a
अर्जुनस्य प्रभावेण तथा नारायणस्य च 036c
अयं वः फल्गुनो भ्राता गाण्डीवं परमायुधम् 037a
परित्यज्य वनं यातु नानेनार्थोऽस्ति कश्चन 037c
चक्ररत्नं तु यत्कृष्णे स्थितमासीन्महात्मनि 038a
गतं तच्च पुनर्हस्ते कालेनैष्यति तस्य ह 038c
वरुणादाहृतं पूर्वं मयैतत्पार्थकारणात् 039a
गाण्डीवं कार्मुकश्रेष्ठं वरुणायैव दीयताम् 039c
ततस्ते भ्रातरः सर्वे धनञ्जयमचोदयन् 040a
स जले प्राक्षिपत्तत्तु तथाक्षय्यौ महेषुधी 040c
ततोऽग्निर्भरतश्रेष्ठ तत्रैवान्तरधीयत 041a
ययुश्च पाण्डवा वीरास्ततस्ते दक्षिणामुखाः 041c
ततस्ते तूत्तरेणैव तीरेण लवणाम्भसः 042a
जग्मुर्भरतशार्दूल दिशं दक्षिणपश्चिमम् 042c
ततः पुनः समावृत्ताः पश्चिमां दिशमेव ते 043a
ददृशुर्द्वारकां चापि सागरेण परिप्लुताम् 043c
उदीचीं पुनरावृत्त्य ययुर्भरतसत्तमाः 044a
प्रादक्षिण्यं चिकीर्षन्तः पृथिव्या योगधर्मिणः 044c