वैशम्पायन उवाच 001
प्रविशन्नर्जुनो राजन्नाश्रमं सत्यवादिनः 001a
ददर्शासीनमेकान्ते मुनिं सत्यवतीसुतम् 001c
स तमासाद्य धर्मज्ञमुपतस्थे महाव्रतम् 002a
अर्जुनोऽस्मीति नामास्मै निवेद्याभ्यवदत्ततः 002c
स्वागतं तेऽस्त्विति प्राह मुनिः सत्यवतीसुतः 003a
आस्यतामिति चोवाच प्रसन्नात्मा महामुनिः 003c
तमप्रतीतमनसं निःश्वसन्तं पुनः पुनः 004a
निर्विण्णमनसं दृष्ट्वा पार्थं व्यासोऽब्रवीदिदम् 004c
अवीरजोऽभिघातस्ते ब्राह्मणो वा हतस्त्वया 005a
युद्धे पराजितो वाऽसि गतश्रीरिव लक्ष्यसे 005c
न त्वा प्रत्यभिजानामि किमिदं भरतर्षभ 006a
श्रोतव्यं चेन्मया पार्थ क्षिप्रमाख्यातुमर्हसि 006c
अर्जुन उवाच 007
यः स मेघवपुः श्रीमान्बृहत्पङ्कजलोचनः 007a
स कृष्णः सह रामेण त्यक्त्वा देहं दिवं गतः 007c
मौसले वृष्णिवीराणां विनाशो ब्रह्मशापजः 008a
बभूव वीरान्तकरः प्रभासे रोमहर्षणः 008c
ये ते शूरा महात्मानः सिंहदर्पा महाबलाः 009a
भोजवृष्ण्यन्धका ब्रह्मन्नन्योन्यं तैर्हतं युधि 009c
गदापरिघशक्तीनां सहाः परिघबाहवः 010a
त एरकाभिर्निहताः पश्य कालस्य पर्ययम् 010c
हतं पञ्चशतं तेषां सहस्रं बाहुशालिनाम् 011a
निधनं समनुप्राप्तं समासाद्येतरेतरम् 011c
पुनः पुनर्न मृष्यामि विनाशममितौजसाम् 012a
चिन्तयानो यदूनां च कृष्णस्य च यशस्विनः 012c
शोषणं सागरस्येव पर्वतस्येव चालनम् 013a
नभसः पतनं चैव शैत्यमग्नेस्तथैव च 013c
अश्रद्धेयमहं मन्ये विनाशं शार्ङ्गधन्वनः 014a
न चेह स्थातुमिच्छामि लोके कृष्णविनाकृतः 014c
इतः कष्टतरं चान्यच्छृणु तद्वै तपोधन 015a
मनो मे दीर्यते येन चिन्तयानस्य वै मुहुः 015c
पश्यतो वृष्णिदाराश्च मम ब्रह्मन्सहस्रशः 016a
आभीरैरनुसृत्याजौ हृताः पञ्चनदालयैः 016c
धनुरादाय तत्राहं नाशकं तस्य पूरणे 017a
यथा पुरा च मे वीर्यं भुजयोर्न तथाऽभवत् 017c
अस्त्राणि मे प्रनष्टानि विविधानि महामुने 018a
शराश्च क्षयमापन्नाः क्षणेनैव समन्ततः 018c
पुरुषश्चाप्रमेयात्मा शङ्खचक्रगदाधरः 019a
चतुर्भुजः पीतवासा श्यामः पद्मायतेक्षणः 019c
यः स याति पुरस्तान्मे रथस्य सुमहाद्युतिः 020a
प्रदहन्रिपुसैन्यानि न पश्याम्यहमद्य तम् 020c
येन पूर्वं प्रदग्धानि शत्रुसैन्यानि तेजसा 021a
शरैर्गाण्डीवनिर्मुक्तैरहं पश्चाद्व्यनाशयम् 021c
तमपश्यन्विषीदामि घूर्णामीव च सत्तम 022a
परिनिर्विण्णचेताश्च शान्तिं नोपलभेऽपि च 022c
विना जनार्दनं वीरं नाहं जीवितुमुत्सहे 023a
श्रुत्वैव हि गतं विष्णुं ममापि मुमुहुर्दिशः 023c
प्रनष्टज्ञातिवीर्यस्य शून्यस्य परिधावतः 024a
उपदेष्टुं मम श्रेयो भवानर्हति सत्तम 024c
व्यास उवाच 025
ब्रह्मशापविनिर्दग्धा वृष्ण्यन्धकमहारथाः 025a
विनष्टाः कुरुशार्दूल न ताञ्शोचितुमर्हसि 025c
भवितव्यं तथा तद्धि दिष्टमेतन्महात्मनाम् 026a
उपेक्षितं च कृष्णेन शक्तेनापि व्यपोहितुम् 026c
त्रैलोक्यमपि कृष्णो हि कृत्स्नं स्थावरजङ्गमम् 027a
प्रसहेदन्यथा कर्तुं किमु शापं मनीषिणाम् 027c
रथस्य पुरतो याति यः स चक्रगदाधरः 028a
तव स्नेहात्पुराणर्षिर्वासुदेवश्चतुर्भुजः 028c
कृत्वा भारावतरणं पृथिव्याः पृथुलोचनः 029a
मोक्षयित्वा जगत्सर्वं गतः स्वस्थानमुत्तमम् 029c
त्वया त्विह महत्कर्म देवानां पुरुषर्षभ 030a
कृतं भीमसहायेन यमाभ्यां च महाभुज 030c
कृतकृत्यांश्च वो मन्ये संसिद्धान्कुरुपुङ्गव 031a
गमनं प्राप्तकालं च तद्धि श्रेयो मतं मम 031c
बलं बुद्धिश्च तेजश्च प्रतिपत्तिश्च भारत 032a
भवन्ति भवकालेषु विपद्यन्ते विपर्यये 032c
कालमूलमिदं सर्वं जगद्बीजं धनञ्जय 033a
काल एव समादत्ते पुनरेव यदृच्छया 033c
स एव बलवान्भूत्वा पुनर्भवति दुर्बलः 034a
स एवेशश्च भूत्वेह परैराज्ञाप्यते पुनः 034c
कृतकृत्यानि चास्त्राणि गतान्यद्य यथागतम् 035a
पुनरेष्यन्ति ते हस्तं यदा कालो भविष्यति 035c
कालो गन्तुं गतिं मुख्यां भवतामपि भारत 036a
एतच्छ्रेयो हि वो मन्ये परमं भरतर्षभ 036c
एतद्वचनमाज्ञाय व्यासस्यामिततेजसः 037a
अनुज्ञातो ययौ पार्थो नगरं नागसाह्वयम् 037c
प्रविश्य च पुरीं वीरः समासाद्य युधिष्ठिरम् 038a
आचष्ट तद्यथावृत्तं वृष्ण्यन्धकजनं प्रति 038c