वैशम्पायन उवाच 001
एवमुक्तः स बीभत्सुर्मातुलेन परन्तपः 001a
दुर्मना दीनमनसं वसुदेवमुवाच ह 001c
नाहं वृष्णिप्रवीरेण मधुभिश्चैव मातुल 002a
विहीनां पृथिवीं द्रष्टुं शक्तश्चिरमिह प्रभो 002c
राजा च भीमसेनश्च सहदेवश्च पाण्डवः 003a
नकुलो याज्ञसेनी च षडेकमनसो वयम् 003c
राज्ञः सङ्क्रमणे चापि कालोऽयं वर्तते ध्रुवम् 004a
तमिमं विद्धि सम्प्राप्तं कालं कालविदां वर 004c
सर्वथा वृष्णिदारांस्तु बालवृद्धांस्तथैव च 005a
नयिष्ये परिगृह्याहमिन्द्रप्रस्थमरिन्दम 005c
इत्युक्त्वा दारुकमिदं वाक्यमाह धनञ्जयः 006a
अमात्यान्वृष्णिवीराणां द्रष्टुमिच्छामि माचिरम् 006c
इत्येवमुक्त्वा वचनं सुधर्मां यादवीं सभाम् 007a
प्रविवेशार्जुनः शूरः शोचमानो महारथान् 007c
तमासनगतं तत्र सर्वाः प्रकृतयस्तथा 008a
ब्राह्मणा नैगमाश्चैव परिवार्योपतस्थिरे 008c
तान्दीनमनसः सर्वान्निभृतान्गतचेतसः 009a
उवाचेदं वचः पार्थः स्वयं दीनतरस्तदा 009c
शक्रप्रस्थमहं नेष्ये वृष्ण्यन्धकजनं स्वयम् 010a
इदं तु नगरं सर्वं समुद्रः प्लावयिष्यति 010c
सज्जीकुरुत यानानि रत्नानि विविधानि च 011a
वज्रोऽयं भवतां राजा शक्रप्रस्थे भविष्यति 011c
सप्तमे दिवसे चैव रवौ विमल उद्गते 012a
बहिर्वत्स्यामहे सर्वे सज्जीभवत माचिरम् 012c
इत्युक्तास्तेन ते पौराः पार्थेनाक्लिष्टकर्मणा 013a
सज्जमाशु ततश्चक्रुः स्वसिद्ध्यर्थं समुत्सुकाः 013c
तां रात्रिमवसत्पार्थः केशवस्य निवेशने 014a
महता शोकमोहेन सहसाऽभिपरिप्लुतः 014c
श्वोभूतेऽथ ततः शौरिर्वसुदेवः प्रतापवान् 015a
युक्त्वाऽऽत्मानं महातेजा जगाम गतिमुत्तमाम् 015c
ततः शब्दो महानासीद्वसुदेवस्य वेश्मनि 016a
दारुणः क्रोशतीनां च रुदतीनां च योषिताम् 016c
प्रकीर्णमूर्धजाः सर्वा विमुक्ताभरणस्रजः 017a
उरांसि पाणिभिर्घ्नन्त्यो व्यलपन्करुणं स्त्रियः 017c
तं देवकी च भद्रा च रोहिणी मदिरा तथा 018a
अन्वारोढुं व्यवसिता भर्तारं योषितां वराः 018c
ततः शौरिं नृयुक्तेन बहुमाल्येन भारत 019a
यानेन महता पार्थो बहिर्निष्क्रामयत्तदा 019c
तमन्वयुस्तत्र तत्र दुःखशोकसमाहताः 020a
द्वारकावासिनः पौराः सर्व एव नरर्षभ 020c
तस्याश्वमेधिकं छत्रं दीप्यमानाश्च पावकाः 021a
पुरस्तात्तस्य यानस्य याजकाश्च ततो ययुः 021c
अनुजग्मुश्च तं वीरं देव्यस्ता वै स्वलङ्कृताः 022a
स्त्रीसहस्रैः परिवृता वधूभिश्च सहस्रशः 022c
यस्तु देशः प्रियस्तस्य जीवतोऽभून्महात्मनः 023a
तत्रैनमुपसङ्कल्प्य पितृमेधं प्रचक्रिरे 023c
तं चिताग्निगतं वीरं शूरपुत्रं वराङ्गनाः 024a
ततोऽन्वारुरुहुः पत्न्यश्चतस्रः पतिलोकगाः 024c
तं वै चतसृभिः स्त्रीभिरन्वितं पाण्डुनन्दनः 025a
अदाहयच्चन्दनैश्च गन्धैरुच्चावचैरपि 025c
ततः प्रादुरभूच्छब्दः समिद्धस्य विभावसोः 026a
सामगानां च निर्घोषो नराणां रुदतामपि 026c
ततो वज्रप्रधानास्ते वृष्णिवीरकुमारकाः 027a
सर्व एवोदकं चक्रुः स्त्रियश्चैव महात्मनः 027c
अलुप्तधर्मस्तं धर्मं कारयित्वा स फल्गुनः 028a
जगाम वृष्णयो यत्र विनष्टा भरतर्षभ 028c
स तान्दृष्ट्वा निपतितान्कदने भृशदुःखितः 029a
बभूवातीव कौरव्यः प्राप्तकालं चकार च 029c
यथाप्रधानतश्चैव चक्रे सर्वाः क्रियास्तदा 030a
ये हता ब्रह्मशापेन मुसलैरेरकोद्भवैः 030c
ततः शरीरे रामस्य वासुदेवस्य चोभयोः 031a
अन्विष्य दाहयामास पुरुषैराप्तकारिभिः 031c
स तेषां विधिवत्कृत्वा प्रेतकार्याणि पाण्डवः 032a
सप्तमे दिवसे प्रायाद्रथमारुह्य सत्वरः 032c
अश्वयुक्तै रथैश्चापि गोखरोष्ट्रयुतैरपि 032e
स्त्रियस्ता वृष्णिवीराणां रुदत्यः शोककर्शिताः 033a
अनुजग्मुर्महात्मानं पाण्डुपुत्रं धनञ्जयम् 033c
भृत्यास्त्वन्धकवृष्णीनां सादिनो रथिनश्च ये 034a
वीरहीनं वृद्धबालं पौरजानपदास्तथा 034c
ययुस्ते परिवार्याथ कलत्रं पार्थशासनात् 034e
कुञ्जरैश्च गजारोहा ययुः शैलनिभैस्तथा 035a
सपादरक्षैः संयुक्ताः सोत्तरायुधिका ययुः 035c
पुत्राश्चान्धकवृष्णीनां सर्वे पार्थमनुव्रताः 036a
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महाधनाः 036c
दश षट्च सहस्राणि वासुदेवावरोधनम् 037a
पुरस्कृत्य ययुर्वज्रं पौत्रं कृष्णस्य धीमतः 037c
बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च 038a
भोजवृष्ण्यन्धकस्त्रीणां हतनाथानि निर्ययुः 038c
तत्सागरसमप्रख्यं वृष्णिचक्रं महर्द्धिमत् 039a
उवाह रथिनां श्रेष्ठः पार्थः परपुरञ्जयः 039c
निर्याते तु जने तस्मिन्सागरो मकरालयः 040a
द्वारकां रत्नसम्पूर्णां जलेनाप्लावयत्तदा 040c
तदद्भुतमभिप्रेक्ष्य द्वारकावासिनो जनाः 041a
तूर्णात्तूर्णतरं जग्मुरहो दैवमिति ब्रुवन् 041c
काननेषु च रम्येषु पर्वतेषु नदीषु च 042a
निवसन्नानयामास वृष्णिदारान्धनञ्जयः 042c
स पञ्चनदमासाद्य धीमानतिसमृद्धिमत् 043a
देशे गोपशुधान्याढ्ये निवासमकरोत्प्रभुः 043c
ततो लोभः समभवद्दस्यूनां निहतेश्वराः 044a
दृष्ट्वा स्त्रियो नीयमानाः पार्थेनैकेन भारत 044c
ततस्ते पापकर्माणो लोभोपहतचेतसः 045a
आभीरा मन्त्रयामासुः समेत्याशुभदर्शनाः 045c
अयमेकोऽर्जुनो योद्धा वृद्धबालं हतेश्वरम् 046a
नयत्यस्मानतिक्रम्य योधाश्चेमे हतौजसः 046c
ततो यष्टिप्रहरणा दस्यवस्ते सहस्रशः 047a
अभ्यधावन्त वृष्णीनां तं जनं लोप्त्रहारिणः 047c
महता सिंहनादेन द्रावयन्तः पृथग्जनम् 048a
अभिपेतुर्धनार्थं ते कालपर्यायचोदिताः 048c
ततो निवृत्तः कौन्तेयः सहसा सपदानुगः 049a
उवाच तान्महाबाहुरर्जुनः प्रहसन्निव 049c
निवर्तध्वमधर्मज्ञा यदि स्थ न मुमूर्षवः 050a
नेदानीं शरनिर्भिन्नाः शोचध्वं निहता मया 050c
तथोक्तास्तेन वीरेण कदर्थीकृत्य तद्वचः 051a
अभिपेतुर्जनं मूढा वार्यमाणाः पुनः पुनः 051c
ततोऽर्जुनो धनुर्दिव्यं गाण्डीवमजरं महत् 052a
आरोपयितुमारेभे यत्नादिव कथञ्चन 052c
चकार सज्यं कृच्छ्रेण सम्भ्रमे तुमुले सति 053a
चिन्तयामास चास्त्राणि न च सस्मार तान्यपि 053c
वैकृत्यं तन्महद्दृष्ट्वा भुजवीर्ये तथा युधि 054a
दिव्यानां च महास्त्राणां विनाशाद्व्रीडितोऽभवत् 054c
वृष्णियोधाश्च ते सर्वे गजाश्वरथयायिनः 055a
न शेकुरावर्तयितुं ह्रियमाणं च तं जनम् 055c
कलत्रस्य बहुत्वात्तु सम्पतत्सु ततस्ततः 056a
प्रयत्नमकरोत्पार्थो जनस्य परिरक्षणे 056c
मिषतां सर्वयोधानां ततस्ताः प्रमदोत्तमाः 057a
समन्ततोऽवकृष्यन्त कामाच्चान्याः प्रवव्रजुः 057c
ततो गाण्डीवनिर्मुक्तैः शरैः पार्थो धनञ्जयः 058a
जघान दस्यून्सोद्वेगो वृष्णिभृत्यैः सह प्रभुः 058c
क्षणेन तस्य ते राजन्क्षयं जग्मुरजिह्मगाः 059a
अक्षया हि पुरा भूत्वा क्षीणाः क्षतजभोजनाः 059c
स शरक्षयमासाद्य दुःखशोकसमाहतः 060a
धनुष्कोट्या तदा दस्यूनवधीत्पाकशासनिः 060c
प्रेक्षतस्त्वेव पार्थस्य वृष्ण्यन्धकवरस्त्रियः 061a
जग्मुरादाय ते म्लेच्छाः समन्ताज्जनमेजय 061c
धनञ्जयस्तु दैवं तन्मनसाऽचिन्तयत्प्रभुः 062a
दुःखशोकसमाविष्टो निःश्वासपरमोऽभवत् 062c
अस्त्राणां च प्रणाशेन बाहुवीर्यस्य सङ्क्षयात् 063a
धनुषश्चाविधेयत्वाच्छराणां सङ्क्षयेण च 063c
बभूव विमनाः पार्थो दैवमित्यनुचिन्तयन् 064a
न्यवर्तत ततो राजन्नेदमस्तीति चाब्रवीत् 064c
ततः स शेषमादाय कलत्रस्य महामतिः 065a
हृतभूयिष्ठरत्नस्य कुरुक्षेत्रमवातरत् 065c
एवं कलत्रमानीय वृष्णीनां हृतशेषितम् 066a
न्यवेशयत कौरव्यस्तत्र तत्र धनञ्जयः 066c
हार्दिक्यतनयं पार्थो नगरं मार्तिकावतम् 067a
भोजराजकलत्रं च हृतशेषं नरोत्तमः 067c
ततो वृद्धांश्च बालांश्च स्त्रियश्चादाय पाण्डवः 068a
वीरैर्विहीनान्सर्वांस्ताञ्शक्रप्रस्थे न्यवेशयत् 068c
यौयुधानिं सरस्वत्यां पुत्रं सात्यकिनः प्रियम् 069a
न्यवेशयत धर्मात्मा वृद्धबालपुरस्कृतम् 069c
इन्द्रप्रस्थे ददौ राज्यं वज्राय परवीरहा 070a
वज्रेणाक्रूरदारास्तु वार्यमाणाः प्रवव्रजुः 070c
रुक्मिणी त्वथ गान्धारी शैब्या हैमवतीत्यपि 071a
देवी जाम्बवती चैव विविशुर्जातवेदसम् 071c
सत्यभामा तथैवान्या देव्यः कृष्णस्य सम्मताः 072a
वनं प्रविविशू राजंस्तापस्ये कृतनिश्चयाः 072c
द्वारकावासिनो ये तु पुरुषाः पार्थमन्वयुः 073a
यथार्हं संविभज्यैनान्वज्रे पर्यददज्जयः 073c
स तत्कृत्वा प्राप्तकालं बाष्पेणापिहितोऽर्जुनः 074a
कृष्णद्वैपायनं राजन्ददर्शाऽऽसीनमाश्रमे 074c