वैशम्पायन उवाच 001
तं शयानं महात्मानं वीरमानकदुन्दुभिम् 001a
पुत्रशोकाभिसन्तप्तं ददर्श कुरुपुङ्गवः 001c
तस्याश्रुपरिपूर्णाक्षो व्यूढोरस्को महाभुजः 002a
आर्तस्यार्ततरः पार्थः पादौ जग्राह भारत 002c
समालिङ्ग्यार्जुनं वृद्धः स भुजाभ्यां महाभुजः 003a
रुदन्पुत्रान्स्मरन्सर्वान्विललाप सुविह्वलः 003c
भ्रातॄन्पुत्रांश्च पौत्रांश्च दौहित्रांश्च सखीनपि 003e
वसुदेव उवाच 004
यैर्जिता भूमिपालाश्च दैत्याश्च शतशोऽर्जुन 004a
तान्दृष्ट्वा नेह पश्यामि जीवाम्यर्जुन दुर्मरः 004c
यौ तावर्जुन शिष्यौ ते प्रियौ बहुमतौ सदा 005a
तयोरपनयात्पार्थ वृष्णयो निधनं गताः 005c
यौ तौ वृष्णिप्रवीराणां द्वावेवातिरथौ मतौ 006a
प्रद्युम्नो युयुधानश्च कथयन्कत्थसे च यौ 006c
नित्यं त्वं कुरुशार्दूल कृष्णश्च मम पुत्रकः 007a
तावुभौ वृष्णिनाशस्य मुखमास्तां धनञ्जय 007c
न तु गर्हामि शैनेयं हार्दिक्यं चाहमर्जुन 008a
अक्रूरं रौक्मिणेयं च शापो ह्येवात्र कारणम् 008c
केशिनं यस्तु कंसं च विक्रम्य जगतः प्रभुः 009a
विदेहावकरोत्पार्थ चैद्यं च बलगर्वितम् 009c
नैषादिमेकलव्यं च चक्रे कालिङ्गमागधान् 010a
गान्धारान्काशिराजं च मरुभूमौ च पार्थिवान् 010c
प्राच्यांश्च दाक्षिणात्यांश्च पार्वतीयांस्तथा नृपान् 011a
सोऽभ्युपेक्षितवानेतमनयं मधुसूदनः 011c
ततः पुत्रांश्च पौत्रांश्च भ्रातॄनथ सखीनपि 012a
शयानान्निहतान्दृष्ट्वा ततो मामब्रवीदिदम् 012c
सम्प्राप्तोऽद्यायमस्यान्तः कुलस्य पुरुषर्षभ 013a
आगमिष्यति बीभत्सुरिमां द्वारवतीं पुरीम् 013c
आख्येयं तस्य यद्वृत्तं वृष्णीनां वैशसं महत् 014a
स तु श्रुत्वा महातेजा यदूनामनयं प्रभो 014c
आगन्ता क्षिप्रमेवेह न मेऽत्रास्ति विचारणा 014e
योऽहं तमर्जुनं विद्धि योऽर्जुनः सोऽहमेव तु 015a
यद्ब्रूयात्तत्तथा कार्यमिति बुध्यस्व माधव 015c
स स्त्रीषु प्राप्तकालं वः पाण्डवो बालकेषु च 016a
प्रतिपत्स्यति बीभत्सुर्भवतश्चौर्ध्वदेहिकम् 016c
इमां च नगरीं सद्यः प्रतियाते धनञ्जये 017a
प्राकाराट्टालकोपेतां समुद्रः प्लावयिष्यति 017c
अहं हि देशे कस्मिंश्चित्पुण्ये नियममास्थितः 018a
कालं कर्ता सद्य एव रामेण सह धीमता 018c
एवमुक्त्वा हृषीकेशो मामचिन्त्यपराक्रमः 019a
हित्वा मां बालकैः सार्धं दिशं कामप्यगात्प्रभुः 019c
सोऽहं तौ च महात्मानौ चिन्तयन्भ्रातरौ तव 020a
घोरं ज्ञातिवधं चैव न भुञ्जे शोककर्शितः 020c
न च भोक्ष्ये न जीविष्ये दिष्ट्या प्राप्तोऽसि पाण्डव 021a
यदुक्तं पार्थ कृष्णेन तत्सर्वमखिलं कुरु 021c
एतत्ते पार्थ राज्यं च स्त्रियो रत्नानि चैव ह 022a
इष्टान्प्राणानहं हीमांस्त्यक्ष्यामि रिपुसूदन 022c