वैशम्पायन उवाच 001
दारुकोऽपि कुरून्गत्वा दृष्ट्वा पार्थान्महारथान् 001a
आचष्ट मौसले वृष्णीनन्योन्येनोपसंहृतान् 001c
श्रुत्वा विनष्टान्वार्ष्णेयान्सभोजकुकुरान्धकान् 002a
पाण्डवाः शोकसन्तप्ता वित्रस्तमनसोऽभवन् 002c
ततोऽर्जुनस्तानामन्त्र्य केशवस्य प्रियः सखा 003a
प्रययौ मातुलं द्रष्टुं नेदमस्तीति चाब्रवीत् 003c
स वृष्णिनिलयं गत्वा दारुकेण सह प्रभो 004a
ददर्श द्वारकां वीरो मृतनाथामिव स्त्रियम् 004c
याः स्म ता लोकनाथेन नाथवत्यः पुराऽभवन् 005a
तास्त्वनाथास्तदा नाथं पार्थं दृष्ट्वा विचुक्रुशुः 005c
षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहः 006a
तासामासीन्महान्नादो दृष्ट्वैवार्जुनमागतम् 006c
तास्तु दृष्ट्वैव कौरव्यो बाष्पेण पिहितोऽर्जुनः 007a
हीनाः कृष्णेन पुत्रैश्च नाशकत्सोऽभिवीक्षितुम् 007c
तां स वृष्ण्यन्धकजलां हयमीनां रथोडुपाम् 008a
वादित्ररथघोषौघां वेश्मतीर्थमहाग्रहाम् 008c
रत्नशैवलसङ्घाटां वज्रप्राकारमालिनीम् 009a
रथ्यास्रोतोजलावर्तां चत्वरस्तिमितह्रदाम् 009c
रामकृष्णमहाग्राहां द्वारकासरितं तदा 010a
कालपाशग्रहां घोरां नदीं वैतरणीमिव 010c
तां ददर्शार्जुनो धीमान्विहीनां वृष्णिपुङ्गवैः 011a
गतश्रियं निरानन्दां पद्मिनीं शिशिरे यथा 011c
तां दृष्ट्वा द्वारकां पार्थस्ताश्च कृष्णस्य योषितः 012a
सस्वनं बाष्पमुत्सृज्य निपपात महीतले 012c
सात्राजिती ततः सत्या रुक्मिणी च विशां पते 013a
अभिपत्य प्ररुरुदुः परिवार्य धनञ्जयम् 013c
ततस्ताः काञ्चने पीठे समुत्थायोपवेश्य च 014a
अब्रुवन्त्यो महात्मानं परिवार्योपतस्थिरे 014c
ततः संस्तूय गोविन्दं कथयित्वा च पाण्डवः 015a
आश्वास्य ताः स्त्रियश्चापि मातुलं द्रष्टुमभ्यगात् 015c