वैशम्पायन उवाच 001
ततो ययुर्दारुकः केशवश्च बभ्रुश्च रामस्य पदं पतन्तः 001a
अथापश्यन्राममनन्तवीर्यं वृक्षे स्थितं चिन्तयानं विविक्ते 001c
ततः समासाद्य महानुभावः कृष्णस्तदा दारुकमन्वशासत् 002a
गत्वा कुरूञ्शीघ्रमिमं महान्तं पार्थाय शंसस्व वधं यदूनाम् 002c
ततोऽर्जुनः क्षिप्रमिहोपयातु श्रुत्वा मृतान्यादवान्ब्रह्मशापात् 003a
इत्येवमुक्तः स ययौ रथेन कुरूंस्तदा दारुको नष्टचेताः 003c
ततो गते दारुके केशवोऽथ दृष्ट्वाऽन्तिके बभ्रुमुवाच वाक्यम् 004a
स्त्रियो भवान्रक्षतु यातु शीघ्रं नैता हिंस्युर्दस्यवो वित्तलोभात् 004c
स प्रस्थितः केशवेनानुशिष्टो मदातुरो ज्ञातिवधार्दितश्च 005a
तं वै यान्तं सन्निधौ केशवस्य त्वरन्तमेकं सहसैव बभ्रुम् 005c
ब्रह्मानुशप्तमवधीन्महद्वै कूटोन्मुक्तं मुसलं लुब्धकस्य 005e
ततो दृष्ट्वा निहतं बभ्रुमाह कृष्णो वाक्यं भ्रातरमग्रजं तु 006a
इहैव त्वं मां प्रतीक्षस्व राम यावत्स्त्रियो ज्ञातिवशाः करोमि 006c
ततः पुरीं द्वारवतीं प्रविश्य जनार्दनः पितरं प्राह वाक्यम् 007a
स्त्रियो भवान्रक्षतु नः समग्रा धनञ्जयस्यागमनं प्रतीक्षन् 007c
रामो वनान्ते प्रतिपालयन्मा मास्तेऽद्याहं तेन समागमिष्ये 007e
दृष्टं मयेदं निधनं यदूनां राज्ञां च पूर्वं कुरुपुङ्गवानाम् 008a
नाहं विना यदुभिर्यादवानां पुरीमिमां द्रष्टुमिहाद्य शक्तः 008c
तपश्चरिष्यामि निबोध तन्मे रामेण सार्धं वनमभ्युपेत्य 009a
इतीदमुक्त्वा शिरसाऽस्य पादौ संस्पृश्य कृष्णस्त्वरितो जगाम 009c
ततो महान्निनदः प्रादुरासीत्सस्त्रीकुमारस्य पुरस्य तस्य 010a
अथाब्रवीत्केशवः सन्निवर्त्य शब्दं श्रुत्वा योषितां क्रोशतीनाम् 010c
पुरीमिमामेष्यति सव्यसाची स वो दुःखान्मोचयिता नराग्र्यः 011a
ततो गत्वा केशवस्तं ददर्श रामं वने स्थितमेकं विविक्ते 011c
अथापश्यद्योगयुक्तस्य तस्य नागं मुखान्निःसरन्तं महान्तम् 012a
श्वेतं ययौ स ततः प्रेक्ष्यमाणो महार्णवो येन महानुभावः 012c
सहस्रशीर्षः पर्वताभोगवर्ष्मा रक्ताननः स्वां तनुं तां विमुच्य 013a
सम्यक्च तं सागरः प्रत्यगृह्णान्नागा दिव्याः सरितश्चैव पुण्याः 013c
कर्कोटको वासुकिस्तक्षकश्च पृथुश्रवा वरुणः कुञ्जरश्च 014a
मिश्री शङ्खः कुमुदः पुण्डरीकस्तथा नागो धृतराष्ट्रो महात्मा 014c
ह्रादः क्राथः शितिकण्ठोऽग्रतेजास्तथा नागौ चक्रमन्दातिषण्डौ 015a
नागश्रेष्ठो दुर्मुखश्चाम्बरीषः स्वयं राजा वरुणश्चापि राजन् 015c
प्रत्युद्गम्य स्वागतेनाभ्यनन्दंस्तेऽपूजयंश्चार्घ्यपाद्यक्रियाभिः 015e
ततो गते भ्रातरि वासुदेवो जानन्सर्वा गतयो दिव्यदृष्टिः 016a
वने शून्ये विचरंश्चिन्तयानो भूमौ ततः संविवेशाग्र्यतेजाः 016c
सर्वं हि तेन प्राक्तदा वित्तमासीद्गान्धार्या यद्वाक्यमुक्तः स पूर्वम् 017a
दुर्वाससा पायसोच्छिष्टलिप्ते यच्चाप्युक्तं तच्च सस्मार कृष्णः 017c
स चिन्तयानोऽन्धकवृष्णिनाशं कुरुक्षयं चैव महानुभावः 018a
मेने ततः सङ्क्रमणस्य कालं ततश्चकारेन्द्रियसन्निरोधम् 018c
स सन्निरुद्धेन्द्रियवाङ्मनास्तु शिश्ये महायोगमुपेत्य कृष्णः 019a
जराथ तं देशमुपाजगाम लुब्धस्तदानीं मृगलिप्सुरुग्रः 019c
स केशवं योगयुक्तं शयानं मृगाशङ्की लुब्धकः सायकेन 020a
जराऽविध्यत्पादतले त्वरावांस्तं चाभितस्तज्जिघृक्षुर्जगाम 020c
अथापश्यत्पुरुषं योगयुक्तं पीताम्बरं लुब्धकोऽनेकबाहुम् 020e
मत्वाऽऽत्मानमपराद्धं स तस्य जग्राह पादौ शिरसा चार्तरूपः 021a
आश्वासयत्तं महात्मा तदानीं गच्छन्नूर्ध्वं रोदसी व्याप्य लक्ष्म्या 021c
दिवं प्राप्तं वासवोऽथाश्विनौ च रुद्रादित्या वसवश्चाथ विश्वे 022a
प्रत्युद्ययुर्मुनयश्चापि सिद्धा गन्धर्वमुख्याश्च सहाप्सरोभिः 022c
ततो राजन्भगवानुग्रतेजा नारायणः प्रभवश्चाव्ययश्च 023a
योगाचार्यो रोदसी व्याप्य लक्ष्म्या स्थानं प्राप स्वं महात्माऽप्रमेयम् 023c
ततो देवैर्ऋषिभिश्चापि कृष्णः समागतश्चारणैश्चैव राजन् 024a
गन्धर्वाग्र्यैरप्सरोभिर्वराभिः सिद्धैः साध्यैश्चानतैः पूज्यमानः 024c
ते वै देवाः प्रत्यनन्दन्त राजन्मुनिश्रेष्ठा वाग्भिरानर्चुरीशम् 025a
गन्धर्वाश्चाप्युपतस्थुः स्तुवन्तः प्रीत्या चैनं पुरुहूतोऽभ्यनन्दत् 025c