वैशम्पायन उवाच 001
काली स्त्री पाण्डुरैर्दन्तैः प्रविश्य हसती निशि 001a
स्त्रियः स्वप्नेषु मुष्णन्ती द्वारकां परिधावति 001c
अलङ्काराश्च छत्रं च ध्वजाश्च कवचानि च 002a
ह्रियमाणान्यदृश्यन्त रक्षोभिः सुभयानकैः 002c
तच्चाग्निदत्तं कृष्णस्य वज्रनाभमयस्मयम् 003a
दिवमाचक्रमे चक्रं वृष्णीनां पश्यतां तदा 003c
युक्तं रथं दिव्यमादित्यवर्णं हयाहरन्पश्यतो दारुकस्य 004a
ते सागरस्योपरिष्टादवर्तन्मनोजवाश्चतुरो वाजिमुख्याः 004c
तालः सुपर्णश्च महाध्वजौ तौ सुपूजितौ रामजनार्दनाभ्याम् 005a
उच्चैर्जह्रुरप्सरसो दिवानिशं वाचश्चोचुर्गम्यतां तीर्थयात्रा 005c
ततो जिगमिषन्तस्ते वृष्ण्यन्धकमहारथाः 006a
सान्तःपुरास्तदा तीर्थयात्रामैच्छन्नरर्षभाः 006c
ततो भोज्यं च भक्ष्यं च पेयं चान्धकवृष्णयः 007a
बहु नानाविधं चक्रुर्मद्यं मांसमनेकशः 007c
ततः सीधुषु सक्ताश्च निर्ययुर्नगराद्बहिः 008a
यानैरश्वैर्गजैश्चैव श्रीमन्तस्तिग्मतेजसः 008c
ततः प्रभासे न्यवसन्यथोद्देशं यथागृहम् 009a
प्रभूतभक्ष्यपेयास्ते सदारा यादवास्तदा 009c
निविष्टांस्तान्निशम्याथ समुद्रान्ते स योगवित् 010a
जगामाऽऽमन्त्र्य तान्वीरानुद्धवोऽर्थविशारदः 010c
तं प्रस्थितं महात्मानमभिवाद्य कृताञ्जलिम् 011a
जानन्विनाशं वृष्णीनां नैच्छद्वारयितुं हरिः 011c
ततः कालपरीतास्ते वृष्ण्यन्धकमहारथाः 012a
अपश्यन्नुद्धवं यान्तं तेजसाऽऽवृत्य रोदसी 012c
ब्राह्मणार्थेषु यत्सिद्धमन्नं तेषां महात्मनाम् 013a
तद्वानरेभ्यः प्रददुः सुरागन्धसमन्वितम् 013c
ततस्तूर्यशताकीर्णं नटनर्तकसङ्कुलम् 014a
प्रावर्तत महापानं प्रभासे तिग्मतेजसाम् 014c
कृष्णस्य सन्निधौ रामः सहितः कृतवर्मणा 015a
अपिबद्युयुधानश्च गदो बभ्रुस्तथैव च 015c
ततः परिषदो मध्ये युयुधानो मदोत्कटः 016a
अब्रवीत्कृतवर्माणमवहस्यावमन्य च 016c
कः क्षत्रियो मन्यमानः सुप्तान्हन्यान्मृतानिव 017a
न तन्मृष्यन्ति हार्दिक्य यादवा यत्त्वया कृतम् 017c
इत्युक्ते युयुधानेन पूजयामास तद्वचः 018a
प्रद्युम्नो रथिनां श्रेष्ठो हार्दिक्यमवमन्य च 018c
ततः परमसङ्क्रुद्धः कृतवर्मा तमब्रवीत् 019a
निर्दिशन्निव सावज्ञं तदा सव्येन पाणिना 019c
भूरिश्रवाश्छिन्नबाहुर्युद्धे प्रायगतस्त्वया 020a
वधेन सुनृशंसेन कथं वीरेण पातितः 020c
इति तस्य वचः श्रुत्वा केशवः परवीरहा 021a
तिर्यक्सरोषया दृष्ट्या वीक्षां चक्रे स मन्युमान् 021c
मणिः स्यमन्तकश्चैव यः स सत्राजितोऽभवत् 022a
तां कथां स्मारयामास सात्यकिर्मधुसूदनम् 022c
तच्छ्रुत्वा केशवस्याङ्कमगमद्रुदती तदा 023a
सत्यभामा प्रकुपिता कोपयन्ती जनार्दनम् 023c
तत उत्थाय सक्रोधः सात्यकिर्वाक्यमब्रवीत् 024a
पञ्चानां द्रौपदेयानां धृष्टद्युम्नशिखण्डिनोः 024c
एष गच्छामि पदवीं सत्येन च तथा शपे 025a
सौप्तिके ये च निहताः सुप्तानेन दुरात्मना 025c
द्रोणपुत्रसहायेन पापेन कृतवर्मणा 026a
समाप्तमायुरस्याद्य यशश्चापि सुमध्यमे 026c
इतीदमुक्त्वा खड्गेन केशवस्य समीपतः 027a
अभिद्रुत्य शिरः क्रुद्धश्चिच्छेद कृतवर्मणः 027c
तथान्यानपि निघ्नन्तं युयुधानं समन्ततः 028a
अभ्यधावद्धृषीकेशो विनिवारयिषुस्तदा 028c
एकीभूतास्ततः सर्वे कालपर्यायचोदिताः 029a
भोजान्धका महाराज शैनेयं पर्यवारयन् 029c
तान्दृष्ट्वा पततस्तूर्णमभिक्रुद्धाञ्जनार्दनः 030a
न चुक्रोध महातेजा जानन्कालस्य पर्ययम् 030c
ते तु पानमदाविष्टाश्चोदिताश्चैव मन्युना 031a
युयुधानमथाभ्यघ्नन्नुच्छिष्टैर्भाजनैस्तदा 031c
हन्यमाने तु शैनेये क्रुद्धो रुक्मिणिनन्दनः 032a
तदन्तरमुपाधावन्मोक्षयिष्यञ्शिनेः सुतम् 032c
स भोजैः सह संयुक्तः सात्यकिश्चान्धकैः सह 033a
बहुत्वान्निहतौ तत्र उभौ कृष्णस्य पश्यतः 033c
हतं दृष्ट्वा तु शैनेयं पुत्रं च यदुनन्दनः 034a
एरकाणां तदा मुष्टिं कोपाज्जग्राह केशवः 034c
तदभून्मुसलं घोरं वज्रकल्पमयोमयम् 035a
जघान तेन कृष्णस्तान्येऽस्य प्रमुखतोऽभवन् 035c
ततोऽन्धकाश्च भोजाश्च शैनेया वृष्णयस्तथा 036a
जघ्नुरन्योन्यमाक्रन्दे मुसलैः कालचोदिताः 036c
यस्तेषामेरकां कश्चिज्जग्राह रुषितो नृप 037a
वज्रभूतेव सा राजन्नदृश्यत तदा विभो 037c
तृणं च मुसलीभूतमपि तत्र व्यदृश्यत 038a
ब्रह्मदण्डकृतं सर्वमिति तद्विद्धि पार्थिव 038c
आविध्याविध्य ते राजन्प्रक्षिपन्ति स्म यत्तृणम् 039a
तद्वज्रभूतं मुसलं व्यदृश्यत तदा दृढम् 039c
अवधीत्पितरं पुत्रः पिता पुत्रं च भारत 040a
मत्ताः परिपतन्ति स्म पोथयन्तः परस्परम् 040c
पतङ्गा इव चाग्नौ ते न्यपतन्कुकुरान्धकाः 041a
नासीत्पलायने बुद्धिर्वध्यमानस्य कस्यचित् 041c
तं तु पश्यन्महाबाहुर्जानन्कालस्य पर्ययम् 042a
मुसलं समवष्टभ्य तस्थौ स मधुसूदनः 042c
साम्बं च निहतं दृष्ट्वा चारुदेष्णं च माधवः 043a
प्रद्युम्नं चानिरुद्धं च ततश्चुक्रोध भारत 043c
गदं वीक्ष्य शयानं च भृशं कोपसमन्वितः 044a
स निःशेषं तदा चक्रे शार्ङ्गचक्रगदाधरः 044c
तं निघ्नन्तं महातेजा बभ्रुः परपुरञ्जयः 045a
दारुकश्चैव दाशार्हमूचतुर्यन्निबोध तत् 045c
भगवन्संहृतं सर्वं त्वया भूयिष्ठमच्युत 046a
रामस्य पदमन्विच्छ तत्र गच्छाम यत्र सः 046c