वैशम्पायन उवाच 001
एवं प्रयतमानानां वृष्णीनामन्धकैः सह 001a
कालो गृहाणि सर्वेषां परिचक्राम नित्यशः 001c
करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः 002a
गृहाण्यवेक्ष्य वृष्णीनां नादृश्यत पुनः क्वचित् 002c
उत्पेदिरे महावाता दारुणाश्च दिने दिने 003a
वृष्ण्यन्धकविनाशाय बहवो रोमहर्षणाः 003c
विवृद्धमूषका रथ्या विभिन्नमणिकास्तथा 004a
चीचीकूचीति वाश्यन्त्यः सारिका वृष्णिवेश्मसु 004c
नोपशाम्यति शब्दश्च स दिवारात्रमेव हि 004e
अनुकुर्वन्नुलूकानां सारसा विरुतं तथा 005a
अजाः शिवानां च रुतमन्वकुर्वत भारत 005c
पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः 006a
वृष्ण्यन्धकानां गेहेषु कपोता व्यचरंस्तदा 006c
व्यजायन्त खरा गोषु करभाश्वतरीषु च 007a
शुनीष्वपि बिडालाश्च मूषका नकुलीषु च 007c
नापत्रपन्त पापानि कुर्वन्तो वृष्णयस्तदा 008a
प्राद्विषन्ब्राह्मणांश्चापि पितॄन्देवांस्तथैव च 008c
गुरूंश्चाप्यवमन्यन्त न तु रामजनार्दनौ 009a
पत्न्यः पतीन्व्युच्चरन्त पत्नीश्च पतयस्तथा 009c
विभावसुः प्रज्वलितो वामं विपरिवर्तते 010a
नीललोहितमाञ्जिष्ठा विसृजन्नर्चिषः पृथक् 010c
उदयास्तमने नित्यं पुर्यां तस्यां दिवाकरः 011a
व्यदृश्यतासकृत्पुम्भिः कबन्धैः परिवारितः 011c
महानसेषु सिद्धेऽन्ने संस्कृतेऽतीव भारत 012a
आहार्यमाणे कृमयो व्यदृश्यन्त नराधिप 012c
पुण्याहे वाच्यमाने च जपत्सु च महात्मसु 013a
अभिधावन्तः श्रूयन्ते न चादृश्यत कश्चन 013c
परस्परं च नक्षत्रं हन्यमानं पुनः पुनः 014a
ग्रहैरपश्यन्सर्वे ते नात्मनस्तु कथञ्चन 014c
नदन्तं पाञ्चजन्यं च वृष्ण्यन्धकनिवेशने 015a
समन्तात्प्रत्यवाश्यन्त रासभा दारुणस्वराः 015c
एवं पश्यन्हृषीकेशः सम्प्राप्तं कालपर्ययम् 016a
त्रयोदश्याममावास्यां तां दृष्ट्वा प्राब्रवीदिदम् 016c
चतुर्दशी पञ्चदशी कृतेयं राहुणा पुनः 017a
तदा च भारते युद्धे प्राप्ता चाद्य क्षयाय नः 017c
विमृशन्नेव कालं तं परिचिन्त्य जनार्दनः 018a
मेने प्राप्तं स षट्त्रिंशं वर्षं वै केशिसूदनः 018c
पुत्रशोकाभिसन्तप्ता गान्धारी हतबान्धवा 019a
यदनुव्याजहारार्ता तदिदं समुपागतम् 019c
इदं च तदनुप्राप्तमब्रवीद्यद्युधिष्ठिरः 020a
पुरा व्यूढेष्वनीकेषु दृष्ट्वोत्पातान्सुदारुणान् 020c
इत्युक्त्वा वासुदेवस्तु चिकीर्षन्सत्यमेव तत् 021a
आज्ञापयामास तदा तीर्थयात्रामरिन्दम 021c
अघोषयन्त पुरुषास्तत्र केशवशासनात् 022a
तीर्थयात्रा समुद्रे वः कार्येति पुरुषर्षभाः 022c