जनमेजय उवाच 001
कथं विनष्टा भगवन्नन्धका वृष्णिभिः सह 001a
पश्यतो वासुदेवस्य भोजाश्चैव महारथाः 001c
वैशम्पायन उवाच 002
षट्त्रिंशेऽथ ततो वर्षे वृष्णीनामनयो महान् 002a
अन्योन्यं मुसलैस्ते तु निजघ्नुः कालचोदिताः 002c
जनमेजय उवाच 003
केनानुशप्तास्ते वीराः क्षयं वृष्ण्यन्धका ययुः 003a
भोजाश्च द्विजवर्य त्वं विस्तरेण वदस्व मे 003c
वैशम्पायन उवाच 004
विश्वामित्रं च कण्वं च नारदं च तपोधनम् 004a
सारणप्रमुखा वीरा ददृशुर्द्वारकागतान् 004c
ते वै साम्बं पुरस्कृत्य भूषयित्वा स्त्रियं यथा 005a
अब्रुवन्नुपसङ्गम्य दैवदण्डनिपीडिताः 005c
इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः 006a
ऋषयः साधु जानीत किमियं जनयिष्यति 006c
इत्युक्तास्ते तदा राजन्विप्रलम्भप्रधर्षिताः 007a
प्रत्यब्रुवंस्तान्मुनयो यत्तच्छृणु नराधिप 007c
वृष्ण्यन्धकविनाशाय मुसलं घोरमायसम् 008a
वासुदेवस्य दायादः साम्बोऽयं जनयिष्यति 008c
येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः 009a
उच्छेत्तारः कुलं कृत्स्नमृते रामजनार्दनौ 009c
समुद्रं यास्यति श्रीमांस्त्यक्त्वा देहं हलायुधः 010a
जरा कृष्णं महात्मानं शयानं भुवि भेत्स्यति 010c
इत्यब्रुवन्त ते राजन्प्रलब्धास्तैर्दुरात्मभिः 011a
मुनयः क्रोधरक्ताक्षाः समीक्ष्याथ परस्परम् 011c
तथोक्त्वा मुनयस्ते तु ततः केशवमभ्ययुः 012ac
अथाब्रवीत्तदा वृष्णीञ्श्रुत्वैवं मधुसूदनः 013a
अन्तज्ञो मतिमांस्तस्य भवितव्यं तथेति तान् 013c
एवमुक्त्वा हृषीकेशः प्रविवेश पुनर्गृहान् 014a
कृतान्तमन्यथा नैच्छत्कर्तुं स जगतः प्रभुः 014c
श्वोभूतेऽथ ततः साम्बो मुसलं तदसूत वै 015a
वृष्ण्यन्धकविनाशाय किङ्करप्रतिमं महत् 015c
प्रसूतं शापजं घोरं तच्च राज्ञे न्यवेदयन् 016a
विषण्णरूपस्तद्राजा सूक्ष्मं चूर्णमकारयत् 016c
प्राक्षिपन्सागरे तच्च पुरुषा राजशासनात् 017a
अघोषयंश्च नगरे वचनादाहुकस्य च 017c
अद्य प्रभृति सर्वेषु वृष्ण्यन्धकगृहेष्विह 018a
सुरासवो न कर्तव्यः सर्वैर्नगरवासिभिः 018c
यश्च नोऽविदितं कुर्यात्पेयं कश्चिन्नरः क्वचित् 019a
जीवन्स शूलमारोहेत्स्वयं कृत्वा सबान्धवः 019c
ततो राजभयात्सर्वे नियमं चक्रिरे तदा 020a
नराः शासनमाज्ञाय तस्य राज्ञो महात्मनः 020c