वैशम्पायन उवाच 001
षट्त्रिंशे त्वथ सम्प्राप्ते वर्षे कौरवनन्दनः 001a
ददर्श विपरीतानि निमित्तानि युधिष्ठिरः 001c
ववुर्वाताः सनिर्घाता रूक्षाः शर्करवर्षिणः 002a
अपसव्यानि शकुना मण्डलानि प्रचक्रिरे 002c
प्रत्यगूहुर्महानद्यो दिशो नीहारसंवृताः 003a
उल्काश्चाङ्गारवर्षिण्यः प्रपेतुर्गगनाद्भुवि 003c
आदित्यो रजसा राजन्समवच्छन्नमण्डलः 004a
विरश्मिरुदये नित्यं कबन्धैः समदृश्यत 004c
परिवेषाश्च दृश्यन्ते दारुणाः चन्द्रसूर्ययोः 005a
त्रिवर्णाः श्यामरूक्षान्तास्तथा भस्मारुणप्रभाः 005c
एते चान्ये च बहव उत्पाता भयशंसिनः 006a
दृश्यन्तेऽहरहो राजन्हृदयोद्वेगकारकाः 006c
कस्यचित्त्वथ कालस्य कुरुराजो युधिष्ठिरः 007a
शुश्राव वृष्णिचक्रस्य मौसले कदनं कृतम् 007c
विमुक्तं वासुदेवं च श्रुत्वा रामं च पाण्डवः 008a
समानीयाब्रवीद्भ्रातॄन्किं करिष्याम इत्युत 008c
परस्परं समासाद्य ब्रह्मदण्डबलात्कृतान् 009a
वृष्णीन्विनष्टांस्ते श्रुत्वा व्यथिताः पाण्डवाभवन् 009c
निधनं वासुदेवस्य समुद्रस्येव शोषणम् 010a
वीरा न श्रद्दधुस्तस्य विनाशं शार्ङ्गधन्वनः 010c
मौसलं ते परिश्रुत्य दुःखशोकसमन्विताः 011a
विषण्णा हतसङ्कल्पाः पाण्डवाः समुपाविशन् 011c