नारद उवाच 001
नासौ वृथाग्निना दग्धो यथा तत्र श्रुतं मया 001a
वैचित्रवीर्यो नृपतिस्तत्ते वक्ष्यामि भारत 001c
वनं प्रविशता तेन वायुभक्षेण धीमता 002a
अग्नयः कारयित्वेष्टिमुत्सृष्टा इति नः श्रुतम् 002c
याजकास्तु ततस्तस्य तानग्नीन्निर्जने वने 003a
समुत्सृज्य यथाकामं जग्मुर्भरतसत्तम 003c
स विवृद्धस्तदा वह्निर्वने तस्मिन्नभूत्किल 004a
तेन तद्वनमादीप्तमिति मे तापसाब्रुवन् 004c
स राजा जाह्नवीकच्छे यथा ते कथितं मया 005a
तेनाग्निना समायुक्तः स्वेनैव भरतर्षभ 005c
एवमावेदयामासुर्मुनयस्ते ममानघ 006a
ये ते भागीरथीतीरे मया दृष्टा युधिष्ठिर 006c
एवं स्वेनाग्निना राजा समायुक्तो महीपते 007a
मा शोचिथास्त्वं नृपतिं गतः स परमां गतिम् 007c
गुरुशुश्रूषया चैव जननी तव पाण्डव 008a
प्राप्ता सुमहतीं सिद्धिमिति मे नात्र संशयः 008c
कर्तुमर्हसि कौरव्य तेषां त्वमुदकक्रियाम् 009a
भ्रातृभिः सहितः सर्वैरेतदत्र विधीयताम् 009c
वैशम्पायन उवाच 010
ततः स पृथिवीपालः पाण्डवानां धुरन्धरः 010a
निर्ययौ सह सोदर्यैः सदारो भरतर्षभ 010c
पौरजानपदाश्चैव राजभक्तिपुरस्कृताः 011a
गङ्गां प्रजग्मुरभितो वाससैकेन सम्वृताः 011c
ततोऽवगाह्य सलिलं सर्वे ते कुरुपुङ्गवाः 012a
युयुत्सुमग्रतः कृत्वा ददुस्तोयं महात्मने 012c
गान्धार्याश्च पृथायाश्च विधिवन्नामगोत्रतः 013a
शौचं निवर्तयन्तस्ते तत्रोषुर्नगराद्बहिः 013c
प्रेषयामास स नरान्विधिज्ञानाप्तकारिणः 014a
गङ्गाद्वारं कुरुश्रेष्ठो यत्र दग्धोऽभवन्नृपः 014c
तत्रैव तेषां कुल्यानि गङ्गाद्वारेऽन्वशात्तदा 015a
कर्तव्यानीति पुरुषान्दत्तदेयान्महीपतिः 015c
द्वादशेऽहनि तेभ्यः स कृतशौचो नराधिपः 016a
ददौ श्राद्धानि विधिवद्दक्षिणावन्ति पाण्डवः 016c
धृतराष्ट्रं समुद्दिश्य ददौ स पृथिवीपतिः 017a
सुवर्णं रजतं गाश्च शय्याश्च सुमहाधनाः 017c
गान्धार्याश्चैव तेजस्वी पृथायाश्च पृथक्पृथक् 018a
सङ्कीर्त्य नामनी राजा ददौ दानमनुत्तमम् 018c
यो यदिच्छति यावच्च तावत्स लभते द्विजः 019a
शयनं भोजनं यानं मणिरत्नमथो धनम् 019c
यानमाच्छादनं भोगान्दासीश्च परिचारिकाः 020a
ददौ राजा समुद्दिश्य तयोर्मात्रोर्महीपतिः 020c
ततः स पृथिवीपालो दत्त्वा श्राद्धान्यनेकशः 021a
प्रविवेश पुनर्धीमान्नगरं वारणाह्वयम् 021c
ते चापि राजवचनात्पुरुषा ये गताभवन् 022a
सङ्कल्प्य तेषां कुल्यानि पुनः प्रत्यागमंस्ततः 022c
माल्यैर्गन्धैश्च विविधैः पूजयित्वा यथाविधि 023a
कुल्यानि तेषां सम्योज्य तदाचख्युर्महीपतेः 023c
समाश्वास्य च राजानं धर्मात्मानं युधिष्ठिरम् 024a
नारदोऽप्यगमद्राजन्परमर्षिर्यथेप्सितम् 024c
एवं वर्षाण्यतीतानि धृतराष्ट्रस्य धीमतः 025a
वनवासे तदा त्रीणि नगरे दश पञ्च च 025c
हतपुत्रस्य सङ्ग्रामे दानानि ददतः सदा 026a
ज्ञातिसम्बन्धिमित्राणां भ्रातॄणां स्वजनस्य च 026c
युधिष्ठिरस्तु नृपतिर्नातिप्रीतमनास्तदा 027a
धारयामास तद्राज्यं निहतज्ञातिबान्धवः 027c