युधिष्ठिर उवाच 001
तथा महात्मनस्तस्य तपस्युग्रे च वर्ततः 001a
अनाथस्येव निधनं तिष्ठत्स्वस्मासु बन्धुषु 001c
दुर्विज्ञेया हि गतयः पुरुषाणां मता मम 002a
यत्र वैचित्रवीर्योऽसौ दग्ध एवं दवाग्निना 002c
यस्य पुत्रशतं श्रीमदभवद्बाहुशालिनः 003a
नागायुतबलो राजा स दग्धो हि दवाग्निना 003c
यं पुरा पर्यवीजन्त तालवृन्तैर्वरस्त्रियः 004a
तं गृध्राः पर्यवीजन्त दावाग्निपरिकालितम् 004c
सूतमागधसञ्घैश्च शयानो यः प्रबोध्यते 005a
धरण्यां स नृपः शेते पापस्य मम कर्मभिः 005c
न तु शोचामि गान्धारीं हतपुत्रां यशस्विनीम् 006a
पतिलोकमनुप्राप्तां तथा भर्तृव्रते स्थिताम् 006c
पृथामेव तु शोचामि या पुत्रैश्वर्यमृद्धिमत् 007a
उत्सृज्य सुमहद्दीप्तं वनवासमरोचयत् 007c
धिग्राज्यमिदमस्माकं धिग्बलं धिक्पराक्रमम् 008a
क्षत्रधर्मं च धिग्यस्मान्मृता जीवामहे वयम् 008c
सुसूक्ष्मा किल कालस्य गतिर्द्विजवरोत्तम 009a
यत्समुत्सृज्य राज्यं सा वनवासमरोचयत् 009c
युधिष्ठिरस्य जननी भीमस्य विजयस्य च 010a
अनाथवत्कथं दग्धा इति मुह्यामि चिन्तयन् 010c
वृथा सन्तोषितो वह्निः खाण्डवे सव्यसाचिना 011a
उपकारमजानन्स कृतघ्न इति मे मतिः 011c
यत्रादहत्स भगवान्मातरं सव्यसाचिनः 012a
कृत्वा यो ब्राह्मणच्छद्म भिक्षार्थी समुपागतः 012c
धिगग्निं धिक्च पार्थस्य विश्रुतां सत्यसन्धताम् 012e
इदं कष्टतरं चान्यद्भगवन्प्रतिभाति मे 013a
वृथाग्निना समायोगो यदभूत्पृथिवीपतेः 013c
तथा तपस्विनस्तस्य राजर्षेः कौरवस्य ह 014a
कथमेवंविधो मृत्युः प्रशास्य पृथिवीमिमाम् 014c
तिष्ठत्सु मन्त्रपूतेषु तस्याग्निषु महावने 015a
वृथाग्निना समायुक्तो निष्ठां प्राप्तः पिता मम 015c
मन्ये पृथा वेपमाना कृशा धमनिसन्तता 016a
हा तात धर्मराजेति समाक्रन्दन्महाभये 016c
भीम पर्याप्नुहि भयादिति चैवाभिवाशती 017a
समन्ततः परिक्षिप्ता माता मेऽभूद्दवाग्निना 017c
सहदेवः प्रियस्तस्याः पुत्रेभ्योऽधिक एव तु 018a
न चैनां मोक्षयामास वीरो माद्रवतीसुतः 018c
तच्छ्रुत्वा रुरुदुः सर्वे समालिङ्ग्य परस्परम् 019a
पाण्डवाः पञ्च दुःखार्ता भूतानीव युगक्षये 019c
तेषां तु पुरुषेन्द्राणां रुदतां रुदितस्वनः 020a
प्रासादाभोगसंरुद्धो अन्वरौत्सीत्स रोदसी 020c