वैशम्पायन उवाच 001
द्विवर्षोपनिवृत्तेषु पाण्डवेषु यदृच्छया 001a
देवर्षिर्नारदो राजन्नाजगाम युधिष्ठिरम् 001c
तमभ्यर्च्य महाबाहुः कुरुराजो युधिष्ठिरः 002a
आसीनं परिविश्वस्तं प्रोवाच वदतां वरः 002c
चिरस्य खलु पश्यामि भगवन्तमुपस्थितम् 003a
कच्चित्ते कुशलं विप्र शुभं वा प्रत्युपस्थितम् 003c
के देशाः परिदृष्टास्ते किं च कार्यं करोमि ते 004a
तद्ब्रूहि द्विजमुख्य त्वमस्माकं च प्रियोऽतिथिः 004c
नारद उवाच 005
चिरदृष्टोऽसि मे राजन्नागतोऽस्मि तपोवनात् 005a
परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप 005c
युधिष्ठिर उवाच 006
वदन्ति पुरुषा मेऽद्य गङ्गातीरनिवासिनः 006a
धृतराष्ट्रं महात्मानमास्थितं परमं तपः 006c
अपि दृष्टस्त्वया तत्र कुशली स कुरूद्वहः 007a
गान्धारी च पृथा चैव सूतपुत्रश्च सञ्जयः 007c
कथं च वर्तते चाद्य पिता मम स पार्थिवः 008a
श्रोतुमिच्छामि भगवन्यदि दृष्टस्त्वया नृपः 008c
नारद उवाच 009
स्थिरीभूय महाराज शृणु सर्वं यथातथम् 009a
यथा श्रुतं च दृष्टं च मया तस्मिंस्तपोवने 009c
वनवासनिवृत्तेषु भवत्सु कुरुनन्दन 010a
कुरुक्षेत्रात्पिता तुभ्यं गङ्गाद्वारं ययौ नृप 010c
गान्धार्या सहितो धीमान्वध्वा कुन्त्या समन्वितः 011a
सञ्जयेन च सूतेन साग्निहोत्रः सयाजकः 011c
आतस्थे स तपस्तीव्रं पिता तव तपोधनः 012a
वीटां मुखे समाधाय वायुभक्षोऽभवन्मुनिः 012c
वने स मुनिभिः सर्वैः पूज्यमानो महातपाः 013a
त्वगस्थिमात्रशेषः स षण्मासानभवन्नृपः 013c
गान्धारी तु जलाहारा कुन्ती मासोपवासिनी 014a
सञ्जयः षष्ठभक्तेन वर्तयामास भारत 014c
अग्नींस्तु याजकास्तत्र जुहुवुर्विधिवत्प्रभो 015a
दृश्यतोऽदृश्यतश्चैव वने तस्मिन्नृपस्य ह 015c
अनिकेतोऽथ राजा स बभूव वनगोचरः 016a
ते चापि सहिते देव्यौ सञ्जयश्च तमन्वयुः 016c
सञ्जयो नृपतेर्नेता समेषु विषमेषु च 017a
गान्धार्यास्तु पृथा राजंश्चक्षुरासीदनिन्दिता 017c
ततः कदाचिद्गङ्गायाः कच्छे स नृपसत्तमः 018a
गङ्गायामाप्लुतो धीमानाश्रमाभिमुखोऽभवत् 018c
अथ वायुः समुद्भूतो दावाग्निरभवन्महान् 019a
ददाह तद्वनं सर्वं परिगृह्य समन्ततः 019c
दह्यत्सु मृगयूथेषु द्विजिह्वेषु समन्ततः 020a
वराहाणां च यूथेषु संश्रयत्सु जलाशयान् 020c
समाविद्धे वने तस्मिन्प्राप्ते व्यसन उत्तमे 021a
निराहारतया राजा मन्दप्राणविचेष्टितः 021c
असमर्थोऽपसरणे सुकृशौ मातरौ च ते 021e
ततः स नृपतिर्दृष्ट्वा वह्निमायान्तमन्तिकात् 022a
इदमाह ततः सूतं सञ्जयं पृथिवीपते 022c
गच्छ सञ्जय यत्राग्निर्न त्वां दहति कर्हिचित् 023a
वयमत्राग्निना युक्ता गमिष्यामः परां गतिम् 023c
तमुवाच किलोद्विग्नः सञ्जयो वदतां वरः 024a
राजन्मृत्युरनिष्टोऽयं भविता ते वृथाग्निना 024c
न चोपायं प्रपश्यामि मोक्षणे जातवेदसः 025a
यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति 025c
इत्युक्तः सञ्जयेनेदं पुनराह स पार्थिवः 026a
नैष मृत्युरनिष्टो नो निःसृतानां गृहात्स्वयम् 026c
जलमग्निस्तथा वायुरथ वापि विकर्शनम् 027a
तापसानां प्रशस्यन्ते गच्छ सञ्जय माचिरम् 027c
इत्युक्त्वा सञ्जयं राजा समाधाय मनस्तदा 028a
प्राङ्मुखः सह गान्धार्या कुन्त्या चोपाविशत्तदा 028c
सञ्जयस्तं तथा दृष्ट्वा प्रदक्षिणमथाकरोत् 029a
उवाच चैनं मेधावी युङ्क्ष्वात्मानमिति प्रभो 029c
ऋषिपुत्रो मनीषी स राजा चक्रेऽस्य तद्वचः 030a
सन्निरुध्येन्द्रियग्राममासीत्काष्ठोपमस्तदा 030c
गान्धारी च महाभागा जननी च पृथा तव 031a
दावाग्निना समायुक्ते स च राजा पिता तव 031c
सञ्जयस्तु महामात्रस्तस्माद्दावादमुच्यत 032a
गङ्गाकूले मया दृष्टस्तापसैः परिवारितः 032c
स तानामन्त्र्य तेजस्वी निवेद्यैतच्च सर्वशः 033a
प्रययौ सञ्जयः सूतो हिमवन्तं महीधरम् 033c
एवं स निधनं प्राप्तः कुरुराजो महामनाः 034a
गान्धारी च पृथा चैव जनन्यौ ते नराधिप 034c
यदृच्छयानुव्रजता मया राज्ञः कलेवरम् 035a
तयोश्च देव्योरुभयोर्दृष्टानि भरतर्षभ 035c
ततस्तपोवने तस्मिन्समाजग्मुस्तपोधनाः 036a
श्रुत्वा राज्ञस्तथा निष्ठां न त्वशोचन्गतिं च ते 036c
तत्राश्रौषमहं सर्वमेतत्पुरुषसत्तम 037a
यथा च नृपतिर्दग्धो देव्यौ ते चेति पाण्डव 037c
न शोचितव्यं राजेन्द्र स्वन्तः स पृथिवीपतिः 038a
प्राप्तवानग्निसंयोगं गान्धारी जननी च ते 038c
वैशम्पायन उवाच 039
एतच्छ्रुत्वा तु सर्वेषां पाण्डवानां महात्मनाम् 039a
निर्याणं धृतराष्ट्रस्य शोकः समभवन्महान् 039c
अन्तःपुराणां च तदा महानार्तस्वरोऽभवत् 040a
पौराणां च महाराज श्रुत्वा राज्ञस्तदा गतिम् 040c
अहो धिगिति राजा तु विक्रुश्य भृशदुःखितः 041a
ऊर्ध्वबाहुः स्मरन्मातुः प्ररुरोद युधिष्ठिरः 041c
भीमसेनपुरोगाश्च भ्रातरः सर्व एव ते 041e
अन्तःपुरेषु च तदा सुमहान्रुदितस्वनः 042a
प्रादुरासीन्महाराज पृथां श्रुत्वा तथागताम् 042c
तं च वृद्धं तथा दग्धं हतपुत्रं नराधिपम् 043a
अन्वशोचन्त ते सर्वे गान्धारीं च तपस्विनीम् 043c
तस्मिन्नुपरते शब्दे मुहूर्तादिव भारत 044a
निगृह्य बाष्पं धैर्येण धर्मराजोऽब्रवीदिदम् 044c