जनमेजय उवाच 001
दृष्ट्वा पुत्रांस्तथा पौत्रान्सानुबन्धाञ्जनाधिपः 001a
धृतराष्ट्रः किमकरोद्राजा चैव युधिष्ठिरः 001c
वैशम्पायन उवाच 002
तद्दृष्ट्वा महदाश्चर्यं पुत्राणां दर्शनं पुनः 002a
वीतशोकः स राजर्षिः पुनराश्रममागमत् 002c
इतरस्तु जनः सर्वस्ते चैव परमर्षयः 003a
प्रतिजग्मुर्यथाकामं धृतराष्ट्राभ्यनुज्ञया 003c
पाण्डवास्तु महात्मानो लघुभूयिष्ठसैनिकाः 004a
अनुजग्मुर्महात्मानं सदारं तं महीपतिम् 004c
तमाश्रमगतं धीमान्ब्रह्मर्षिर्लोकपूजितः 005a
मुनिः सत्यवतीपुत्रो धृतराष्ट्रमभाषत 005c
धृतराष्ट्र महाबाहो शृणु कौरवनन्दन 006a
श्रुतं ते ज्ञानवृद्धानामृषीणां पुण्यकर्मणाम् 006c
ऋद्धाभिजनवृद्धानां वेदवेदाङ्गवेदिनाम् 007a
धर्मज्ञानां पुराणानां वदतां विविधाः कथाः 007c
मा स्म शोके मनः कार्षीर्दिष्टेन व्यथते बुधः 008a
श्रुतं देवरहस्यं ते नारदाद्देवदर्शनात् 008c
गतास्ते क्षत्रधर्मेण शस्त्रपूतां गतिं शुभाम् 009a
यथा दृष्टास्त्वया पुत्रा यथाकामविहारिणः 009c
युधिष्ठिरस्त्वयं धीमान्भवन्तमनुरुध्यते 010a
सहितो भ्रातृभिः सर्वैः सदारः ससुहृज्जनः 010c
विसर्जयैनं यात्वेष स्वराज्यमनुशासताम् 011a
मासः समधिको ह्येषामतीतो वसतां वने 011c
एतद्धि नित्यं यत्नेन पदं रक्ष्यं परन्तप 012a
बहुप्रत्यर्थिकं ह्येतद्राज्यं नाम नराधिप 012c
इत्युक्तः कौरवो राजा व्यासेनामितबुद्धिना 013a
युधिष्ठिरमथाहूय वाग्मी वचनमब्रवीत् 013c
अजातशत्रो भद्रं ते शृणु मे भ्रातृभिः सह 014a
त्वत्प्रसादान्महीपाल शोको नास्मान्प्रबाधते 014c
रमे चाहं त्वया पुत्र पुरेव गजसाह्वये 015a
नाथेनानुगतो विद्वन्प्रियेषु परिवर्तिना 015c
प्राप्तं पुत्रफलं त्वत्तः प्रीतिर्मे विपुला त्वयि 016a
न मे मन्युर्महाबाहो गम्यतां पुत्र मा चिरम् 016c
भवन्तं चेह सम्प्रेक्ष्य तपो मे परिहीयते 017a
तपोयुक्तं शरीरं च त्वां दृष्ट्वा धारितं पुनः 017c
मातरौ ते तथैवेमे शीर्णपर्णकृताशने 018a
मम तुल्यव्रते पुत्र नचिरं वर्तयिष्यतः 018c
दुर्योधनप्रभृतयो दृष्टा लोकान्तरं गताः 019a
व्यासस्य तपसो वीर्याद्भवतश्च समागमात् 019c
प्रयोजनं चिरं वृत्तं जीवितस्य च मेऽनघ 020a
उग्रं तपः समास्थास्ये त्वमनुज्ञातुमर्हसि 020c
त्वय्यद्य पिण्डः कीर्तिश्च कुलं चेदं प्रतिष्ठितम् 021a
श्वो वाद्य वा महाबाहो गम्यतां पुत्र मा चिरम् 021c
राजनीतिः सुबहुशः श्रुता ते भरतर्षभ 022a
सन्देष्टव्यं न पश्यामि कृतमेतावता विभो 022c
इत्युक्तवचनं तात नृपो राजानमब्रवीत् 023a
न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम् 023c
कामं गच्छन्तु मे सर्वे भ्रातरोऽनुचरास्तथा 024a
भवन्तमहमन्विष्ये मातरौ च यतव्रते 024c
तमुवाचाथ गान्धारी मैवं पुत्र शृणुष्व मे 025a
त्वय्यधीनं कुरुकुलं पिण्डश्च श्वशुरस्य मे 025c
गम्यतां पुत्र पर्याप्तमेतावत्पूजिता वयम् 026a
राजा यदाह तत्कार्यं त्वया पुत्र पितुर्वचः 026c
इत्युक्तः स तु गान्धार्या कुन्तीमिदमुवाच ह 027a
स्नेहबाष्पाकुले नेत्रे प्रमृज्य रुदतीं वचः 027c
विसर्जयति मां राजा गान्धारी च यशस्विनी 028a
भवत्यां बद्धचित्तस्तु कथं यास्यामि दुःखितः 028c
न चोत्सहे तपोविघ्नं कर्तुं ते धर्मचारिणि 029a
तपसो हि परं नास्ति तपसा विन्दते महत् 029c
ममापि न तथा राज्ञि राज्ये बुद्धिर्यथा पुरा 030a
तपस्येवानुरक्तं मे मनः सर्वात्मना तथा 030c
शून्येयं च मही सर्वा न मे प्रीतिकरी शुभे 031a
बान्धवा नः परिक्षीणा बलं नो न यथा पुरा 031c
पाञ्चालाः सुभृशं क्षीणाः कन्यामात्रावशेषिताः 032a
न तेषां कुलकर्तारं कञ्चित्पश्याम्यहं शुभे 032c
सर्वे हि भस्मसान्नीता द्रोणेनैकेन संयुगे 033a
अवशेषास्तु निहता द्रोणपुत्रेण वै निशि 033c
चेदयश्चैव मत्स्याश्च दृष्टपूर्वास्तथैव नः 034a
केवलं वृष्णिचक्रं तु वासुदेवपरिग्रहात् 034c
यं दृष्ट्वा स्थातुमिच्छामि धर्मार्थं नान्यहेतुकम् 034e
शिवेन पश्य नः सर्वान्दुर्लभं दर्शनं तव 035a
भविष्यत्यम्ब राजा हि तीव्रमारप्स्यते तपः 035c
एतच्छ्रुत्वा महाबाहुः सहदेवो युधां पतिः 036a
युधिष्ठिरमुवाचेदं बाष्पव्याकुललोचनः 036c
नोत्सहेऽहं परित्यक्तुं मातरं पार्थिवर्षभ 037a
प्रतियातु भवान्क्षिप्रं तपस्तप्स्याम्यहं वने 037c
इहैव शोषयिष्यामि तपसाहं कलेवरम् 038a
पादशुश्रूषणे युक्तो राज्ञो मात्रोस्तथानयोः 038c
तमुवाच ततः कुन्ती परिष्वज्य महाभुजम् 039a
गम्यतां पुत्र मैव त्वं वोचः कुरु वचो मम 039c
आगमा वः शिवाः सन्तु स्वस्था भवत पुत्रकाः 040a
उपरोधो भवेदेवमस्माकं तपसः कृते 040c
त्वत्स्नेहपाशबद्धा च हीयेयं तपसः परात् 041a
तस्मात्पुत्रक गच्छ त्वं शिष्टमल्पं हि नः प्रभो 041c
एवं संस्तम्भितं वाक्यैः कुन्त्या बहुविधैर्मनः 042a
सहदेवस्य राजेन्द्र राज्ञश्चैव विशेषतः 042c
ते मात्रा समनुज्ञाता राज्ञा च कुरुपुङ्गवाः 043a
अभिवाद्य कुरुश्रेष्ठमामन्त्रयितुमारभन् 043c
राजन्प्रतिगमिष्यामः शिवेन प्रतिनन्दिताः 044a
अनुज्ञातास्त्वया राजन्गमिष्यामो विकल्मषाः 044c
एवमुक्तः स राजर्षिर्धर्मराज्ञा महात्मना 045a
अनुजज्ञे जयाशीर्भिरभिनन्द्य युधिष्ठिरम् 045c
भीमं च बलिनां श्रेष्ठं सान्त्वयामास पार्थिवः 046a
स चास्य सम्यङ्मेधावी प्रत्यपद्यत वीर्यवान् 046c
अर्जुनं च समाश्लिष्य यमौ च पुरुषर्षभौ 047a
अनुजज्ञे स कौरव्यः परिष्वज्याभिनन्द्य च 047c
गान्धार्या चाभ्यनुज्ञाताः कृतपादाभिवन्दनाः 048a
जनन्या समुपाघ्राताः परिष्वक्ताश्च ते नृपम् 048c
चक्रुः प्रदक्षिणं सर्वे वत्सा इव निवारणे 048e
पुनः पुनर्निरीक्षन्तः प्रजग्मुस्ते प्रदक्षिणम् 049a
तथैव द्रौपदी साध्वी सर्वाः कौरवयोषितः 049c
न्यायतः श्वशुरे वृत्तिं प्रयुज्य प्रययुस्ततः 050a
श्वश्रूभ्यां समनुज्ञाताः परिष्वज्याभिनन्दिताः 050c
सन्दिष्टाश्चेतिकर्तव्यं प्रययुर्भर्तृभिः सह 050e
ततः प्रजज्ञे निनदः सूतानां युज्यतामिति 051a
उष्ट्राणां क्रोशतां चैव हयानां हेषतामपि 051c
ततो युधिष्ठिरो राजा सदारः सहसैनिकः 052a
नगरं हास्तिनपुरं पुनरायात्सबान्धवः 052c