वैशम्पायन उवाच 001
अदृष्ट्वा तु नृपः पुत्रान्दर्शनं प्रतिलब्धवान् 001a
ऋषिप्रसादात्पुत्राणां स्वरूपाणां कुरूद्वह 001c
स राजा राजधर्मांश्च ब्रह्मोपनिषदं तथा 002a
अवाप्तवान्नरश्रेष्ठो बुद्धिनिश्चयमेव च 002c
विदुरश्च महाप्राज्ञो ययौ सिद्धिं तपोबलात् 003a
धृतराष्ट्रः समासाद्य व्यासं चापि तपस्विनम् 003c
जनमेजय उवाच 004
ममापि वरदो व्यासो दर्शयेत्पितरं यदि 004a
तद्रूपवेषवयसं श्रद्दध्यां सर्वमेव ते 004c
प्रियं मे स्यात्कृतार्थश्च स्यामहं कृतनिश्चयः 005a
प्रसादादृषिपुत्रस्य मम कामः समृध्यताम् 005c
सूत उवाच 006
इत्युक्तवचने तस्मिन्नृपे व्यासः प्रतापवान् 006a
प्रसादमकरोद्धीमानानयच्च परिक्षितम् 006c
ततस्तद्रूपवयसमागतं नृपतिं दिवः 007a
श्रीमन्तं पितरं राजा ददर्श जनमेजयः 007c
शमीकं च महात्मानं पुत्रं तं चास्य शृङ्गिणम् 008a
अमात्या ये बभूवुश्च राज्ञस्तांश्च ददर्श ह 008c
ततः सोऽवभृथे राजा मुदितो जनमेजयः 009a
पितरं स्नापयामास स्वयं सस्नौ च पार्थिवः 009c
स्नात्वा च भरतश्रेष्ठः सोऽऽस्तीकमिदमब्रवीत् 010a
यायावरकुलोत्पन्नं जरत्कारुसुतं तदा 010c
आस्तीक विविधाश्चर्यो यज्ञोऽयमिति मे मतिः 011a
यदद्यायं पिता प्राप्तो मम शोकप्रणाशनः 011c
आस्तीक उवाच 012
ऋषिर्द्वैपायनो यत्र पुराणस्तपसो निधिः 012a
यज्ञे कुरुकुलश्रेष्ठ तस्य लोकावुभौ जितौ 012c
श्रुतं विचित्रमाख्यानं त्वया पाण्डवनन्दन 013a
सर्पाश्च भस्मसान्नीता गताश्च पदवीं पितुः 013c
कथञ्चित्तक्षको मुक्तः सत्यत्वात्तव पार्थिव 014a
ऋषयः पूजिताः सर्वे गतिं दृष्ट्वा महात्मनः 014c
प्राप्तः सुविपुलो धर्मः श्रुत्वा पापविनाशनम् 015a
विमुक्तो हृदयग्रन्थिरुदारजनदर्शनात् 015c
ये च पक्षधरा धर्मे सद्वृत्तरुचयश्च ये 016a
यान्दृष्ट्वा हीयते पापं तेभ्यः कार्या नमस्क्रियाः 016c
सूत उवाच 017
एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः 017a
पूजयामास तमृषिमनुमान्य पुनः पुनः 017c
पप्रच्छ तमृषिं चापि वैशम्पायनमच्युतम् 018a
कथावशेषं धर्मज्ञो वनवासस्य सत्तम 018c