सूत उवाच 001
एतच्छ्रुत्वा नृपो विद्वान्हृष्टोऽभूज्जनमेजयः 001a
पितामहानां सर्वेषां गमनागमनं तदा 001c
अब्रवीच्च मुदा युक्तः पुनरागमनं प्रति 002a
कथं नु त्यक्तदेहानां पुनस्तद्रूपदर्शनम् 002c
इत्युक्तः स द्विजश्रेष्ठो व्यासशिष्यः प्रतापवान् 003a
प्रोवाच वदतां श्रेष्ठस्तं नृपं जनमेजयम् 003c
अविप्रणाशः सर्वेषां कर्मणामिति निश्चयः 004a
कर्मजानि शरीराणि तथैवाकृतयो नृप 004c
महाभूतानि नित्यानि भूताधिपतिसंश्रयात् 005a
तेषां च नित्यसंवासो न विनाशो वियुज्यताम् 005c
अनाशाय कृतं कर्म तस्य चेष्टः फलागमः 006a
आत्मा चैभिः समायुक्तः सुखदुःखमुपाश्नुते 006c
अविनाशी तथा नित्यं क्षेत्रज्ञ इति निश्चयः 007a
भूतानामात्मभावो यो ध्रुवोऽसौ संविजानताम् 007c
यावन्न क्षीयते कर्म तावदस्य स्वरूपता 008a
सङ्क्षीणकर्मा पुरुषो रूपान्यत्वं नियच्छति 008c
नानाभावास्तथैकत्वं शरीरं प्राप्य संहताः 009a
भवन्ति ते तथा नित्याः पृथग्भावं विजानताम् 009c
अश्वमेधे श्रुतिश्चेयमश्वसञ्ज्ञपनं प्रति 010a
लोकान्तरगता नित्यं प्राणा नित्या हि वाजिनः 010c
अहं हितं वदाम्येतत्प्रियं चेत्तव पार्थिव 011a
देवयाना हि पन्थानः श्रुतास्ते यज्ञसंस्तरे 011c
सुकृतो यत्र ते यज्ञस्तत्र देवा हितास्तव 012a
यदा समन्विता देवाः पशूनां गमनेश्वराः 012c
गतिमन्तश्च तेनेष्ट्वा नान्ये नित्या भवन्ति ते 012e
नित्येऽस्मिन्पञ्चके वर्गे नित्ये चात्मनि यो नरः 013a
अस्य नानासमायोगं यः पश्यति वृथामतिः 013c
वियोगे शोचतेऽत्यर्थं स बाल इति मे मतिः 013e
वियोगे दोषदर्शी यः संयोगमिह वर्जयेत् 014a
असङ्गे सङ्गमो नास्ति दुःखं भुवि वियोगजम् 014c
परापरज्ञस्तु नरो नाभिमानादुदीरितः 015a
अपरज्ञः परां बुद्धिं स्पृष्ट्वा मोहाद्विमुच्यते 015c
अदर्शनादापतितः पुनश्चादर्शनं गतः 016a
नाहं तं वेद्मि नासौ मां न च मेऽस्ति विरागता 016c
येन येन शरीरेण करोत्ययमनीश्वरः 017a
तेन तेन शरीरेण तदवश्यमुपाश्नुते 017c
मानसं मनसाप्नोति शारीरं च शरीरवान् 017e