वैशम्पायन उवाच 001
ततस्ते भरतश्रेष्ठाः समाजग्मुः परस्परम् 001a
विगतक्रोधमात्सर्याः सर्वे विगतकल्मषाः 001c
विधिं परममास्थाय ब्रह्मर्षिविहितं शुभम् 002a
सम्प्रीतमनसः सर्वे देवलोक इवामराः 002c
पुत्रः पित्रा च मात्रा च भार्या च पतिना सह 003a
भ्राता भ्रात्रा सखा चैव सख्या राजन्समागताः 003c
पाण्डवास्तु महेष्वासं कर्णं सौभद्रमेव च 004a
सम्प्रहर्षात्समाजग्मुर्द्रौपदेयांश्च सर्वशः 004c
ततस्ते प्रीयमाणा वै कर्णेन सह पाण्डवाः 005a
समेत्य पृथिवीपालाः सौहृदेऽवस्थिताभवन् 005c
ऋषिप्रसादात्तेऽन्ये च क्षत्रिया नष्टमन्यवः 006a
असौहृदं परित्यज्य सौहृदे पर्यवस्थिताः 006c
एवं समागताः सर्वे गुरुभिर्बान्धवैस्तथा 007a
पुत्रैश्च पुरुषव्याघ्राः कुरवोऽन्ये च मानवाः 007c
तां रात्रिमेकां कृत्स्नां ते विहृत्य प्रीतमानसाः 008a
मेनिरे परितोषेण नृपाः स्वर्गसदो यथा 008c
नात्र शोको भयं त्रासो नारतिर्नायशोऽभवत् 009a
परस्परं समागम्य योधानां भरतर्षभ 009c
समागतास्ताः पितृभिर्भ्रातृभिः पतिभिः सुतैः 010a
मुदं परमिकां प्राप्य नार्यो दुःखमथात्यजन् 010c
एकां रात्रिं विहृत्यैवं ते वीरास्ताश्च योषितः 011a
आमन्त्र्यान्योन्यमाश्लिष्य ततो जग्मुर्यथागतम् 011c
ततो विसर्जयामास लोकांस्तान्मुनिपुङ्गवः 012a
क्षणेनान्तर्हिताश्चैव प्रेक्षतामेव तेऽभवन् 012c
अवगाह्य महात्मानः पुण्यां त्रिपथगां नदीम् 013a
सरथाः सध्वजाश्चैव स्वानि स्थानानि भेजिरे 013c
देवलोकं ययुः केचित्केचिद्ब्रह्मसदस्तथा 014a
केचिच्च वारुणं लोकं केचित्कौबेरमाप्नुवन् 014c
तथा वैवस्वतं लोकं केचिच्चैवाप्नुवन्नृपाः 015a
राक्षसानां पिशाचानां केचिच्चाप्युत्तरान्कुरून् 015c
विचित्रगतयः सर्वे या अवाप्यामरैः सह 016a
आजग्मुस्ते महात्मानः सवाहाः सपदानुगाः 016c
गतेषु तेषु सर्वेषु सलिलस्थो महामुनिः 017a
धर्मशीलो महातेजाः कुरूणां हितकृत्सदा 017c
ततः प्रोवाच ताः सर्वाः क्षत्रिया निहतेश्वराः 017e
या याः पतिकृताल्ँलोकानिच्छन्ति परमस्त्रियः 018a
ता जाह्नवीजलं क्षिप्रमवगाहन्त्वतन्द्रिताः 018c
ततस्तस्य वचः श्रुत्वा श्रद्दधाना वराङ्गनाः 019a
श्वशुरं समनुज्ञाप्य विविशुर्जाह्नवीजलम् 019c
विमुक्ता मानुषैर्देहैस्ततस्ता भर्तृभिः सह 020a
समाजग्मुस्तदा साध्व्यः सर्वा एव विशां पते 020c
एवं क्रमेण सर्वास्ताः शीलवत्यः कुलस्त्रियः 021a
प्रविश्य तोयं निर्मुक्ता जग्मुर्भर्तृसलोकताम् 021c
दिव्यरूपसमायुक्ता दिव्याभरणभूषिताः 022a
दिव्यमाल्याम्बरधरा यथासां पतयस्तथा 022c
ताः शीलसत्त्वसम्पन्ना वितमस्का गतक्लमाः 023a
सर्वाः सर्वगुणैर्युक्ताः स्वं स्वं स्थानं प्रपेदिरे 023c
यस्य यस्य च यः कामस्तस्मिन्कालेऽभवत्तदा 024a
तं तं विसृष्टवान्व्यासो वरदो धर्मवत्सलः 024c
तच्छ्रुत्वा नरदेवानां पुनरागमनं नराः 025a
जहृषुर्मुदिताश्चासन्नन्यदेहगता अपि 025c
प्रियैः समागमं तेषां य इमं शृणुयान्नरः 026a
प्रियाणि लभते नित्यमिह च प्रेत्य चैव ह 026c
इष्टबान्धवसंयोगमनायासमनामयम् 027a
य इमं श्रावयेद्विद्वान्संसिद्धिं प्राप्नुयात्पराम् 027c
स्वाध्याययुक्ताः पुरुषाः क्रियायुक्ताश्च भारत 028a
अध्यात्मयोगयुक्ताश्च धृतिमन्तश्च मानवाः 028c
श्रुत्वा पर्व त्विदं नित्यमवाप्स्यन्ति परां गतिम् 028e