वैशम्पायन उवाच 001
ततो निशायां प्राप्तायां कृतसायाह्निकक्रियाः 001a
व्यासमभ्यगमन्सर्वे ये तत्रासन्समागताः 001c
धृतराष्ट्रस्तु धर्मात्मा पाण्डवैः सहितस्तदा 002a
शुचिरेकमनाः सार्धमृषिभिस्तैरुपाविशत् 002c
गान्धार्या सह नार्यस्तु सहिताः समुपाविशन् 003a
पौरजानपदश्चापि जनः सर्वो यथावयः 003c
ततो व्यासो महातेजाः पुण्यं भागीरथीजलम् 004a
अवगाह्याजुहावाथ सर्वाल्ँलोकान्महामुनिः 004c
पाण्डवानां च ये योधाः कौरवाणां च सर्वशः 005a
राजानश्च महाभागा नानादेशनिवासिनः 005c
ततः सुतुमुलः शब्दो जलान्तर्जनमेजय 006a
प्रादुरासीद्यथा पूर्वं कुरुपाण्डवसेनयोः 006c
ततस्ते पार्थिवाः सर्वे भीष्मद्रोणपुरोगमाः 007a
ससैन्याः सलिलात्तस्मात्समुत्तस्थुः सहस्रशः 007c
विराटद्रुपदौ चोभौ सपुत्रौ सहसैनिकौ 008a
द्रौपदेयाश्च सौभद्रो राक्षसश्च घटोत्कचः 008c
कर्णदुर्योधनौ चोभौ शकुनिश्च महारथः 009a
दुःशासनादयश्चैव धार्तराष्ट्रा महारथाः 009c
जारासन्धिर्भगदत्तो जलसन्धश्च पार्थिवः 010a
भूरिश्रवाः शलः शल्यो वृषसेनश्च सानुजः 010c
लक्ष्मणो राजपुत्रश्च धृष्टद्युम्नस्य चात्मजाः 011a
शिखण्डिपुत्राः सर्वे च धृष्टकेतुश्च सानुजः 011c
अचलो वृषकश्चैव राक्षसश्चाप्यलायुधः 012a
बाह्लीकः सोमदत्तश्च चेकितानश्च पार्थिवः 012c
एते चान्ये च बहवो बहुत्वाद्ये न कीर्तिताः 013a
सर्वे भासुरदेहास्ते समुत्तस्थुर्जलात्ततः 013c
यस्य वीरस्य यो वेषो यो ध्वजो यच्च वाहनम् 014a
तेन तेन व्यदृश्यन्त समुपेता नराधिपाः 014c
दिव्याम्बरधराः सर्वे सर्वे भ्राजिष्णुकुण्डलाः 015a
निर्वैरा निरहङ्कारा विगतक्रोधमन्यवः 015c
गन्धर्वैरुपगीयन्तः स्तूयमानाश्च बन्दिभिः 016a
दिव्यमाल्याम्बरधरा वृताश्चाप्सरसां गणैः 016c
धृतराष्ट्रस्य च तदा दिव्यं चक्षुर्नराधिप 017a
मुनिः सत्यवतीपुत्रः प्रीतः प्रादात्तपोबलात् 017c
दिव्यज्ञानबलोपेता गान्धारी च यशस्विनी 018a
ददर्श पुत्रांस्तान्सर्वान्ये चान्येऽपि रणे हताः 018c
तदद्भुतमचिन्त्यं च सुमहद्रोमहर्षणम् 019a
विस्मितः स जनः सर्वो ददर्शानिमिषेक्षणः 019c
तदुत्सवमदोदग्रं हृष्टनारीनराकुलम् 020a
ददृशे बलमायान्तं चित्रं पटगतं यथा 020c
धृतराष्ट्रस्तु तान्सर्वान्पश्यन्दिव्येन चक्षुषा 021a
मुमुदे भरतश्रेष्ठ प्रसादात्तस्य वै मुनेः 021c