व्यास उवाच 001
भद्रे द्रक्ष्यसि गान्धारि पुत्रान्भ्रातॄन्सखींस्तथा 001a
वधूश्च पतिभिः सार्धं निशि सुप्तोत्थिता इव 001c
कर्णं द्रक्ष्यति कुन्ती च सौभद्रं चापि यादवी 002a
द्रौपदी पञ्च पुत्रांश्च पितॄन्भ्रातॄंस्तथैव च 002c
पूर्वमेवैष हृदये व्यवसायोऽभवन्मम 003a
यथास्मि चोदितो राज्ञा भवत्या पृथयैव च 003c
न ते शोच्या महात्मानः सर्व एव नरर्षभाः 004a'
क्षत्रधर्मपराः सन्तस्तथा हि निधनं गताः 004c
भवितव्यमवश्यं तत्सुरकार्यमनिन्दिते 005a
अवतेरुस्ततः सर्वे देवभागैर्महीतलम् 005c
गन्धर्वाप्सरसश्चैव पिशाचा गुह्यराक्षसाः 006a
तथा पुण्यजनाश्चैव सिद्धा देवर्षयोऽपि च 006c
देवाश्च दानवाश्चैव तथा ब्रह्मर्षयोऽमलाः 007a
त एते निधनं प्राप्ताः कुरुक्षेत्रे रणाजिरे 007c
गन्धर्वराजो यो धीमान्धृतराष्ट्र इति श्रुतः 008a
स एव मानुषे लोके धृतराष्ट्रः पतिस्तव 008c
पाण्डुं मरुद्गणं विद्धि विशिष्टतममच्युतम् 009a
धर्मस्यांशोऽभवत्क्षत्ता राजा चायं युधिष्ठिरः 009c
कलिं दुर्योधनं विद्धि शकुनिं द्वापरं तथा 010a
दुःशासनादीन्विद्धि त्वं राक्षसाञ्शुभदर्शने 010c
मरुद्गणाद्भीमसेनं बलवन्तमरिन्दमम् 011a
विद्धि च त्वं नरमृषिमिमं पार्थं धनञ्जयम् 011c
नारायणं हृषीकेशमश्विनौ यमजावुभौ 011e
द्विधा कृत्वात्मनो देहमादित्यं तपतां वरम् 012a
लोकांश्च तापयानं वै विद्धि कर्णं च शोभने 012c
यश्च वैरार्थमुद्भूतः सङ्घर्षजननस्तथा 012e
यश्च पाण्डवदायादो हतः षड्भिर्महारथैः 013a
स सोम इह सौभद्रो योगादेवाभवद्द्विधा 013c
द्रौपद्या सह सम्भूतं धृष्टद्युम्नं च पावकात् 014a
अग्नेर्भागं शुभं विद्धि राक्षसं तु शिखण्डिनम् 014c
द्रोणं बृहस्पतेर्भागं विद्धि द्रौणिं च रुद्रजम् 015a
भीष्मं च विद्धि गाङ्गेयं वसुं मानुषतां गतम् 015c
एवमेते महाप्राज्ञे देवा मानुष्यमेत्य हि 016a
ततः पुनर्गताः स्वर्गं कृते कर्मणि शोभने 016c
यच्च वो हृदि सर्वेषां दुःखमेनच्चिरं स्थितम् 017a
तदद्य व्यपनेष्यामि परलोककृताद्भयात् 017c
सर्वे भवन्तो गच्छन्तु नदीं भागीरथीं प्रति 018a
तत्र द्रक्ष्यथ तान्सर्वान्ये हतास्मिन्रणाजिरे 018c
वैशम्पायन उवाच 019
इति व्यासस्य वचनं श्रुत्वा सर्वो जनस्तदा 019a
महता सिंहनादेन गङ्गामभिमुखो ययौ 019c
धृतराष्ट्रश्च सामात्यः प्रययौ सह पाण्डवैः 020a
सहितो मुनिशार्दूलैर्गन्धर्वैश्च समागतैः 020c
ततो गङ्गां समासाद्य क्रमेण स जनार्णवः 021a
निवासमकरोत्सर्वो यथाप्रीति यथासुखम् 021c
राजा च पाण्डवैः सार्धमिष्टे देशे सहानुगः 022a
निवासमकरोद्धीमान्सस्त्रीवृद्धपुरःसरः 022c
जगाम तदहश्चापि तेषां वर्षशतं यथा 023a
निशां प्रतीक्षमाणानां दिदृक्षूणां मृतान्नृपान् 023c
अथ पुण्यं गिरिवरमस्तमभ्यगमद्रविः 024a
ततः कृताभिषेकास्ते नैशं कर्म समाचरन् 024c