कुन्त्युवाच 001
भगवञ्श्वशुरो मेऽसि दैवतस्यापि दैवतम् 001a
स मे देवातिदेवस्त्वं शृणु सत्यां गिरं मम 001c
तपस्वी कोपनो विप्रो दुर्वासा नाम मे पितुः 002a
भिक्षामुपागतो भोक्तुं तमहं पर्यतोषयम् 002c
शौचेन त्वागसस्त्यागैः शुद्धेन मनसा तथा 003a
कोपस्थानेष्वपि महत्स्वकुप्यं न कदाचन 003c
स मे वरमदात्प्रीतः कृतमित्यहमब्रुवम् 004a
अवश्यं ते ग्रहीतव्यमिति मां सोऽब्रवीद्वचः 004c
ततः शापभयाद्विप्रमवोचं पुनरेव तम् 005a
एवमस्त्विति च प्राह पुनरेव स मां द्विजः 005c
धर्मस्य जननी भद्रे भवित्री त्वं वरानने 006a
वशे स्थस्यन्ति ते देवा यांस्त्वमावाहयिष्यसि 006c
इत्युक्त्वान्तर्हितो विप्रस्ततोऽहं विस्मिताभवम् 007a
न च सर्वास्ववस्थासु स्मृतिर्मे विप्रणश्यति 007c
अथ हर्म्यतलस्थाहं रविमुद्यन्तमीक्षती 008a
सम्स्मृत्य तदृषेर्वाक्यं स्पृहयन्ती दिवाकरम् 008c
स्थिताहं बालभावेन तत्र दोषमबुध्यती 008e
अथ देवः सहस्रांशुर्मत्समीपगतोऽभवत् 009a
द्विधा कृत्वात्मनो देहं भूमौ च गगनेऽपि च 009c
तताप लोकानेकेन द्वितीयेनागमच्च माम् 009e
स मामुवाच वेपन्तीं वरं मत्तो वृणीष्व ह 010a
गम्यतामिति तं चाहं प्रणम्य शिरसावदम् 010c
स मामुवाच तिग्मांशुर्वृथाह्वानं न ते क्षमम् 011a
धक्ष्यामि त्वां च विप्रं च येन दत्तो वरस्तव 011c
तमहं रक्षती विप्रं शापादनपराधिनम् 012a
पुत्रो मे त्वत्समो देव भवेदिति ततोऽब्रुवम् 012c
ततो मां तेजसाविश्य मोहयित्वा च भानुमान् 013a
उवाच भविता पुत्रस्तवेत्यभ्यगमद्दिवम् 013c
ततोऽहमन्तर्भवने पितुर्वृत्तान्तरक्षिणी 014a
गूढोत्पन्नं सुतं बालं जले कर्णमवासृजम् 014c
नूनं तस्यैव देवस्य प्रसादात्पुनरेव तु 015a
कन्याहमभवं विप्र यथा प्राह स मामृषिः 015c
स मया मूढया पुत्रो ज्ञायमानोऽप्युपेक्षितः 016a
तन्मां दहति विप्रर्षे यथा सुविदितं तव 016c
यदि पापमपापं वा तदेतद्विवृतं मया 017a
तन्मे भयं त्वं भगवन्व्यपनेतुमिहार्हसि 017c
यच्चास्य राज्ञो विदितं हृदिस्थं भवतोऽनघ 018a
तं चायं लभतां काममद्यैव मुनिसत्तम 018c
इत्युक्तः प्रत्युवाचेदं व्यासो वेदविदां वरः 019a
साधु सर्वमिदं तथ्यमेवमेव यथात्थ माम् 019c
अपराधश्च ते नास्ति कन्याभावं गता ह्यसि 020a
देवाश्चैश्वर्यवन्तो वै शरीराण्याविशन्ति वै 020c
सन्ति देवनिकायाश्च सङ्कल्पाज्जनयन्ति ये 021a
वाचा दृष्ट्या तथा स्पर्शात्सञ्घर्षेणेति पञ्चधा 021c
मनुष्यधर्मो दैवेन धर्मेण न हि युज्यते 022a
इति कुन्ति व्यजानीहि व्येतु ते मानसो ज्वरः 022c
सर्वं बलवतां पथ्यं सर्वं बलवतां शुचि 023a
सर्वं बलवतां धर्मः सर्वं बलवतां स्वकम् 023c