वैशम्पायन उवाच 001
तच्छ्रुत्वा विविधं तस्य राजर्षेः परिदेवितम् 001a
पुनर्नवीकृतः शोको गान्धार्या जनमेजय 001c
कुन्त्या द्रुपदपुत्र्याश्च सुभद्रायास्तथैव च 002a
तासां च वरनारीणां वधूनां कौरवस्य ह 002c
पुत्रशोकसमाविष्टा गान्धारी त्विदमब्रवीत् 003a
श्वशुरं बद्धनयना देवी प्राञ्जलिरुत्थिता 003c
षोडशेमानि वर्षाणि गतानि मुनिपुङ्गव 004a
अस्य राज्ञो हतान्पुत्राञ्शोचतो न शमो विभो 004c
पुत्रशोकसमाविष्टो निःश्वसन्ह्येष भूमिपः 005a
न शेते वसतीः सर्वा धृतराष्ट्रो महामुने 005c
लोकानन्यान्समर्थोऽसि स्रष्टुं सर्वांस्तपोबलात् 006a
किमु लोकान्तरगतान्राज्ञो दर्शयितुं सुतान् 006c
इयं च द्रौपदी कृष्णा हतज्ञातिसुता भृशम् 007a
शोचत्यतीव साध्वी ते स्नुषाणां दयिता स्नुषा 007c
तथा कृष्णस्य भगिनी सुभद्रा भद्रभाषिणी 008a
सौभद्रवधसन्तप्ता भृशं शोचति भामिनी 008c
इयं च भूरिश्रवसो भार्या परमदुःखिता 009a
भर्तृव्यसनशोकार्ता न शेते वसतीः प्रभो 009c
यस्यास्तु श्वशुरो धीमान्बाह्लीकः स कुरूद्वहः 010a
निहतः सोमदत्तश्च पित्रा सह महारणे 010c
श्रीमच्चास्य महाबुद्धेः सङ्ग्रामेष्वपलायिनः 011a
पुत्रस्य ते पुत्रशतं निहतं यद्रणाजिरे 011c
तस्य भार्याशतमिदं पुत्रशोकसमाहतम् 012a
पुनः पुनर्वर्धयानं शोकं राज्ञो ममैव च 012c
तेनारम्भेण महता मामुपास्ते महामुने 012e
ये च शूरा महात्मानः श्वशुरा मे महारथाः 013a
सोमदत्तप्रभृतयः का नु तेषां गतिः प्रभो 013c
तव प्रसादाद्भगवन्विशोकोऽयं महीपतिः 014a
कुर्यात्कालमहं चैव कुन्ती चेयं वधूस्तव 014c
इत्युक्तवत्यां गान्धार्यां कुन्ती व्रतकृशानना 015a
प्रच्छन्नजातं पुत्रं तं सस्मारादित्यसम्भवम् 015c
तामृषिर्वरदो व्यासो दूरश्रवणदर्शनः 016a
अपश्यद्दुःखितां देवीं मातरं सव्यसाचिनः 016c
तामुवाच ततो व्यासो यत्ते कार्यं विवक्षितम् 017a
तद्ब्रूहि त्वं महाप्राज्ञे यत्ते मनसि वर्तते 017c
ततः कुन्ती श्वशुरयोः प्रणम्य शिरसा तदा 018a
उवाच वाक्यं सव्रीडं विवृण्वाना पुरातनम् 018c