जनमेजय उवाच 001
वनवासं गते विप्र धृतराष्ट्रे महीपतौ 001a
सभार्ये नृपशार्दूले वध्वा कुन्त्या समन्विते 001c
विदुरे चापि संसिद्धे धर्मराजं व्यपाश्रिते 002a
वसत्सु पाण्डुपुत्रेषु सर्वेष्वाश्रममण्डले 002c
यत्तदाश्चर्यमिति वै करिष्यामीत्युवाच ह 003a
व्यासः परमतेजस्वी महर्षिस्तद्वदस्व मे 003c
वनवासे च कौरव्यः कियन्तं कालमच्युतः 004a
युधिष्ठिरो नरपतिर्न्यवसत्सजनो द्विज 004c
किमाहाराश्च ते तत्र ससैन्या न्यवसन्प्रभो 005a
सान्तःपुरा महात्मान इति तद्ब्रूहि मेऽनघ 005c
वैशम्पायन उवाच 006
तेऽनुज्ञातास्तदा राजन्कुरुराजेन पाण्डवाः 006a
विविधान्यन्नपानानि विश्राम्यानुभवन्ति ते 006c
मासमेकं विजह्रुस्ते ससैन्यान्तःपुरा वने 007a
अथ तत्रागमद्व्यासो यथोक्तं ते मयानघ 007c
तथा तु तेषां सर्वेषां कथाभिर्नृपसन्निधौ 008a
व्यासमन्वासतां राजन्नाजग्मुर्मुनयोऽपरे 008c
नारदः पर्वतश्चैव देवलश्च महातपाः 009a
विश्वावसुस्तुम्बुरुश्च चित्रसेनश्च भारत 009c
तेषामपि यथान्यायं पूजां चक्रे महामनाः 010a
धृतराष्ट्राभ्यनुज्ञातः कुरुराजो युधिष्ठिरः 010c
निषेदुस्ते ततः सर्वे पूजां प्राप्य युधिष्ठिरात् 011a
आसनेष्वथ पुण्येषु बर्हिष्केषु वरेषु च 011c
तेषु तत्रोपविष्टेषु स तु राजा महामतिः 012a
पाण्डुपुत्रैः परिवृतो निषसाद कुरूद्वहः 012c
गान्धारी चैव कुन्ती च द्रौपदी सात्वती तथा 013a
स्त्रियश्चान्यास्तथान्याभिः सहोपविविशुस्ततः 013c
तेषां तत्र कथा दिव्या धर्मिष्ठाश्चाभवन्नृप 014a
ऋषीणां च पुराणानां देवासुरविमिश्रिताः 014c
ततः कथान्ते व्यासस्तं प्रज्ञाचक्षुषमीश्वरम् 015a
प्रोवाच वदतां श्रेष्ठः पुनरेव स तद्वचः 015c
प्रीयमाणो महातेजाः सर्ववेदविदां वरः 015e
विदितं मम राजेन्द्र यत्ते हृदि विवक्षितम् 016a
दह्यमानस्य शोकेन तव पुत्रकृतेन वै 016c
गान्धार्याश्चैव यद्दुःखं हृदि तिष्ठति पार्थिव 017a
कुन्त्याश्च यन्महाराज द्रौपद्याश्च हृदि स्थितम् 017c
यच्च धारयते तीव्रं दुःखं पुत्रविनाशजम् 018a
सुभद्रा कृष्णभगिनी तच्चापि विदितं मम 018c
श्रुत्वा समागममिमं सर्वेषां वस्ततो नृप 019a
संशयच्छेदनायाहं प्राप्तः कौरवनन्दन 019c
इमे च देवगन्धर्वाः सर्वे चैव महर्षयः 020a
पश्यन्तु तपसो वीर्यमद्य मे चिरसम्भृतम् 020c
तदुच्यतां महाबाहो कं कामं प्रदिशामि ते 021a
प्रवणोऽस्मि वरं दातुं पश्य मे तपसो बलम् 021c
एवमुक्तः स राजेन्द्रो व्यासेनामितबुद्धिना 022a
मुहूर्तमिव सञ्चिन्त्य वचनायोपचक्रमे 022c
धन्योऽस्म्यनुगृहीतोऽस्मि सफलं जीवितं च मे 023a
यन्मे समागमोऽद्येह भवद्भिः सह साधुभिः 023c
अद्य चाप्यवगच्छामि गतिमिष्टामिहात्मनः 024a
भवद्भिर्ब्रह्मकल्पैर्यत्समेतोऽहं तपोधनाः 024c
दर्शनादेव भवतां पूतोऽहं नात्र संशयः 025a
विद्यते न भयं चापि परलोकान्ममानघाः 025c
किं तु तस्य सुदुर्बुद्धेर्मन्दस्यापनयैर्भृशम् 026a
दूयते मे मनो नित्यं स्मरतः पुत्रगृद्धिनः 026c
अपापाः पाण्डवा येन निकृताः पापबुद्धिना 027a
घातिता पृथिवी चेयं सहसा सनरद्विपा 027c
राजानश्च महात्मानो नानाजनपदेश्वराः 028a
आगम्य मम पुत्रार्थे सर्वे मृत्युवशं गताः 028c
ये ते पुत्रांश्च दाराश्च प्राणांश्च मनसः प्रियान् 029a
परित्यज्य गताः शूराः प्रेतराजनिवेशनम् 029c
का नु तेषां गतिर्ब्रह्मन्मित्रार्थे ये हता मृधे 030a
तथैव पुत्रपौत्राणां मम ये निहता युधि 030c
दूयते मे मनोऽभीक्ष्णं घातयित्वा महाबलम् 031a
भीष्मं शान्तनवं वृद्धं द्रोणं च द्विजसत्तमम् 031c
मम पुत्रेण मूढेन पापेन सुहृदद्विषा 032a
क्षयं नीतं कुलं दीप्तं पृथिवीराज्यमिच्छता 032c
एतत्सर्वमनुस्मृत्य दह्यमानो दिवानिशम् 033a
न शान्तिमधिगच्छामि दुःखशोकसमाहतः 033c
इति मे चिन्तयानस्य पितः शर्म न विद्यते 033e