वैशम्पायन उवाच 001
तथा समुपविष्टेषु पाण्डवेषु महात्मसु 001a
व्यासः सत्यवतीपुत्रः प्रोवाचामन्त्र्य पार्थिवम् 001c
धृतराष्ट्र महाबाहो कच्चित्ते वर्धते तपः 002a
कच्चिन्मनस्ते प्रीणाति वनवासे नराधिप 002c
कच्चिद्धृदि न ते शोको राजन्पुत्रविनाशजः 003a
कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवानघ 003c
कच्चिद्बुद्धिं दृढां कृत्वा चरस्यारण्यकं विधिम् 004a
कच्चिद्वधूश्च गान्धारी न शोकेनाभिभूयते 004c
महाप्रज्ञा बुद्धिमती देवी धर्मार्थदर्शिनी 005a
आगमापायतत्त्वज्ञा कच्चिदेषा न शोचति 005c
कच्चित्कुन्ती च राजंस्त्वां शुश्रूषुरनहङ्कृता 006a
या परित्यज्य राज्यं स्वं गुरुशुश्रूषणे रता 006c
कच्चिद्धर्मसुतो राजा त्वया प्रीत्याभिनन्दितः 007a
भीमार्जुनयमाश्चैव कच्चिदेतेऽपि सान्त्विताः 007c
कच्चिन्नन्दसि दृष्ट्वैतान्कच्चित्ते निर्मलं मनः 008a
कच्चिद्विशुद्धभावोऽसि जातज्ञानो नराधिप 008c
एतद्धि त्रितयं श्रेष्ठं सर्वभूतेषु भारत 009a
निर्वैरता महाराज सत्यमद्रोह एव च 009c
कच्चित्ते नानुतापोऽस्ति वनवासेन भारत 010a
स्वदते वन्यमन्नं वा मुनिवासांसि वा विभो 010c
विदितं चापि मे राजन्विदुरस्य महात्मनः 011a
गमनं विधिना येन धर्मस्य सुमहात्मनः 011c
माण्डव्यशापाद्धि स वै धर्मो विदुरतां गतः 012a
महाबुद्धिर्महायोगी महात्मा सुमहामनाः 012c
बृहस्पतिर्वा देवेषु शुक्रो वाप्यसुरेषु यः 013a
न तथा बुद्धिसम्पन्नो यथा स पुरुषर्षभः 013c
तपोबलव्ययं कृत्वा सुमहच्चिरसम्भृतम् 014a
माण्डव्येनर्षिणा धर्मो ह्यभिभूतः सनातनः 014c
नियोगाद्ब्रह्मणः पूर्वं मया स्वेन बलेन च 015a
वैचित्रवीर्यके क्षेत्रे जातः स सुमहामतिः 015c
भ्राता तव महाराज देवदेवः सनातनः 016a
धारणाच्छ्रेयसो ध्यानाद्यं धर्मं कवयो विदुः 016c
सत्येन संवर्धयति दमेन नियमेन च 017a
अहिंसया च दानेन तपसा च सनातनः 017c
येन योगबलाज्जातः कुरुराजो युधिष्ठिरः 018a
धर्म इत्येष नृपते प्राज्ञेनामितबुद्धिना 018c
यथा ह्यग्निर्यथा वायुर्यथापः पृथिवी यथा 019a
यथाकाशं तथा धर्म इह चामुत्र च स्थितः 019c
सर्वगश्चैव कौरव्य सर्वं व्याप्य चराचरम् 020a
दृश्यते देवदेवः स सिद्धैर्निर्दग्धकिल्बिषैः 020c
यो हि धर्मः स विदुरो विदुरो यः स पाण्डवः 021a
स एष राजन्वश्यस्ते पाण्डवः प्रेष्यवत्स्थितः 021c
प्रविष्टः स स्वमात्मानं भ्राता ते बुद्धिसत्तमः 022a
दिष्ट्या महात्मा कौन्तेयं महायोगबलान्वितः 022c
त्वां चापि श्रेयसा योक्ष्ये नचिराद्भरतर्षभ 023a
संशयच्छेदनार्थं हि प्राप्तं मां विद्धि पुत्रक 023c
न कृतं यत्पुरा कैश्चित्कर्म लोके महर्षिभिः 024a
आश्चर्यभूतं तपसः फलं सन्दर्शयामि वः 024c
किमिच्छसि महीपाल मत्तः प्राप्तुममानुषम् 025a
द्रष्टुं स्प्रष्टुमथ श्रोतुं वद कर्तास्मि तत्तथा 025c