वैशम्पायन उवाच 001
एवं सा रजनी तेषामाश्रमे पुण्यकर्मणाम् 001a
शिवा नक्षत्रसम्पन्ना सा व्यतीयाय भारत 001c
तत्र तत्र कथाश्चासंस्तेषां धर्मार्थलक्षणाः 002a
विचित्रपदसञ्चारा नानाश्रुतिभिरन्विताः 002c
पाण्डवास्त्वभितो मातुर्धरण्यां सुषुपुस्तदा 003a
उत्सृज्य सुमहार्हाणि शयनानि नराधिप 003c
यदाहारोऽभवद्राजा धृतराष्ट्रो महामनाः 004a
तदाहारा नृवीरास्ते न्यवसंस्तां निशां तदा 004c
व्यतीतायां तु शर्वर्यां कृतपूर्वाह्णिकक्रियः 005a
भ्रातृभिः सह कौन्तेयो ददर्शाश्रममण्डलम् 005c
सान्तःपुरपरीवारः सभृत्यः सपुरोहितः 006a
यथासुखं यथोद्देशं धृतराष्ट्राभ्यनुज्ञया 006c
ददर्श तत्र वेदीश्च सम्प्रज्वलितपावकाः 007a
कृताभिषेकैर्मुनिभिर्हुताग्निभिरुपस्थिताः 007c
वानेयपुष्पनिकरैराज्यधूमोद्गमैरपि 008a
ब्राह्मेण वपुषा युक्ता युक्ता मुनिगणैश्च ताः 008c
मृगयूथैरनुद्विग्नैस्तत्र तत्र समाश्रितैः 009a
अशङ्कितैः पक्षिगणैः प्रगीतैरिव च प्रभो 009c
केकाभिर्नीलकण्ठानां दात्यूहानां च कूजितैः 010a
कोकिलानां च कुहरैः शुभैः श्रुतिमनोहरैः 010c
प्राधीतद्विजघोषैश्च क्वचित्क्वचिदलङ्कृतम् 011a
फलमूलसमुद्वाहैर्महद्भिश्चोपशोभितम् 011c
ततः स राजा प्रददौ तापसार्थमुपाहृतान् 012a
कलशान्काञ्चनान्राजंस्तथैवौदुम्बरानपि 012c
अजिनानि प्रवेणीश्च स्रुक्स्रुवं च महीपतिः 013a
कमण्डलूंस्तथा स्थालीः पिठराणि च भारत 013c
भाजनानि च लौहानि पात्रीश्च विविधा नृप 014a
यद्यदिच्छति यावच्च यदन्यदपि काङ्क्षितम् 014c
एवं स राजा धर्मात्मा परीत्याश्रममण्डलम् 015a
वसु विश्राण्य तत्सर्वं पुनरायान्महीपतिः 015c
कृताह्निकं च राजानं धृतराष्ट्रं मनीषिणम् 016a
ददर्शासीनमव्यग्रं गान्धारीसहितं तदा 016c
मातरं चाविदूरस्थां शिष्यवत्प्रणतां स्थिताम् 017a
कुन्तीं ददर्श धर्मात्मा सततं धर्मचारिणीम् 017c
स तमभ्यर्च्य राजानं नाम संश्राव्य चात्मनः 018a
निषीदेत्यभ्यनुज्ञातो बृस्यामुपविवेश ह 018c
भीमसेनादयश्चैव पाण्डवाः कौरवर्षभम् 019a
अभिवाद्योपसङ्गृह्य निषेदुः पार्थिवाज्ञया 019c
स तैः परिवृतो राजा शुशुभेऽतीव कौरवः 020a
बिभ्रद्ब्राह्मीं श्रियं दीप्तां देवैरिव बृहस्पतिः 020c
तथा तेषूपविष्टेषु समाजग्मुर्महर्षयः 021a
शतयूपप्रभृतयः कुरुक्षेत्रनिवासिनः 021c
व्यासश्च भगवान्विप्रो देवर्षिगणपूजितः 022a
वृतः शिष्यैर्महातेजा दर्शयामास तं नृपम् 022c
ततः स राजा कौरव्यः कुन्तीपुत्रश्च वीर्यवान् 023a
भीमसेनादयश्चैव समुत्थायाभ्यपूजयन् 023c
समागतस्ततो व्यासः शतयूपादिभिर्वृतः 024a
धृतराष्ट्रं महीपालमास्यतामित्यभाषत 024c
नवं तु विष्टरं कौश्यं कृष्णाजिनकुशोत्तरम् 025a
प्रतिपेदे तदा व्यासस्तदर्थमुपकल्पितम् 025c
ते च सर्वे द्विजश्रेष्ठा विष्टरेषु समन्ततः 026a
द्वैपायनाभ्यनुज्ञाता निषेदुर्विपुलौजसः 026c