धृतराष्ट्र उवाच 001
युधिष्ठिर महाबाहो कच्चित्तात कुशल्यसि 001a
सहितो भ्रातृभिः सर्वैः पौरजानपदैस्तथा 001c
ये च त्वामुपजीवन्ति कच्चित्तेऽपि निरामयाः 002a
सचिवा भृत्यवर्गाश्च गुरवश्चैव ते विभो 002c
कच्चिद्वर्तसि पौराणीं वृत्तिं राजर्षिसेविताम् 003a
कच्चिद्दायाननुच्छिद्य कोशस्तेऽभिप्रपूर्यते 003c
अरिमध्यस्थमित्रेषु वर्तसे चानुरूपतः 004a
ब्राह्मणानग्रहारैर्वा यथावदनुपश्यसि 004c
कच्चित्ते परितुष्यन्ति शीलेन भरतर्षभ 005a
शत्रवो गुरवः पौरा भृत्या वा स्वजनोऽपि वा 005c
कच्चिद्यजसि राजेन्द्र श्रद्धावान्पितृदेवताः 006a
अतिथींश्चान्नपानेन कच्चिदर्चसि भारत 006c
कच्चिच्च विषये विप्राः स्वकर्मनिरतास्तव 007a
क्षत्रिया वैश्यवर्गा वा शूद्रा वापि कुटुम्बिनः 007c
कच्चित्स्त्रीबालवृद्धं ते न शोचति न याचते 008a
जामयः पूजिताः कच्चित्तव गेहे नरर्षभ 008c
कच्चिद्राजर्षिवंशोऽयं त्वामासाद्य महीपतिम् 009a
यथोचितं महाराज यशसा नावसीदति 009c
वैशम्पायन उवाच 010
इत्येवंवादिनं तं स न्यायवित्प्रत्यभाषत 010a
कुशलप्रश्नसम्युक्तं कुशलो वाक्यकर्मणि 010c
कच्चित्ते वर्धते राजंस्तपो मन्दश्रमस्य ते 011a
अपि मे जननी चेयं शुश्रूषुर्विगतक्लमा 011c
अप्यस्याः सफलो राजन्वनवासो भविष्यति 011e
इयं च माता ज्येष्ठा मे वीतवाताध्वकर्शिता 012a
घोरेण तपसा युक्ता देवी कच्चिन्न शोचति 012c
हतान्पुत्रान्महावीर्यान्क्षत्रधर्मपरायणान् 013a
नापध्यायति वा कच्चिदस्मान्पापकृतः सदा 013c
क्व चासौ विदुरो राजन्नैनं पश्यामहे वयम् 014a
सञ्जयः कुशली चायं कच्चिन्नु तपसि स्थितः 014c
इत्युक्तः प्रत्युवाचेदं धृतराष्ट्रो जनाधिपम् 015a
कुशली विदुरः पुत्र तपो घोरं समास्थितः 015c
वायुभक्षो निराहारः कृशो धमनिसन्ततः 016a
कदाचिद्दृश्यते विप्रैः शून्येऽस्मिन्कानने क्वचित् 016c
इत्येवं वदतस्तस्य जटी वीटामुखः कृशः 017a
दिग्वासा मलदिग्धाङ्गो वनरेणुसमुक्षितः 017c
दूरादालक्षितः क्षत्ता तत्राख्यातो महीपतेः 018a
निवर्तमानः सहसा जनं दृष्ट्वाश्रमं प्रति 018c
तमन्वधावन्नृपतिरेक एव युधिष्ठिरः 019a
प्रविशन्तं वनं घोरं लक्ष्यालक्ष्यं क्वचित्क्वचित् 019c
भो भो विदुर राजाहं दयितस्ते युधिष्ठिरः 020a
इति ब्रुवन्नरपतिस्तं यत्नादभ्यधावत 020c
ततो विविक्त एकान्ते तस्थौ बुद्धिमतां वरः 021a
विदुरो वृक्षमाश्रित्य कञ्चित्तत्र वनान्तरे 021c
तं राजा क्षीणभूयिष्ठमाकृतीमात्रसूचितम् 022a
अभिजज्ञे महाबुद्धिं महाबुद्धिर्युधिष्ठिरः 022c
युधिष्ठिरोऽहमस्मीति वाक्यमुक्त्वाग्रतः स्थितः 023a
विदुरस्याश्रवे राजा स च प्रत्याह सञ्ज्ञया 023c
ततः सोऽनिमिषो भूत्वा राजानं समुदैक्षत 024a
सम्योज्य विदुरस्तस्मिन्दृष्टिं दृष्ट्या समाहितः 024c
विवेश विदुरो धीमान्गात्रैर्गात्राणि चैव ह 025a
प्राणान्प्राणेषु च दधदिन्द्रियाणीन्द्रियेषु च 025c
स योगबलमास्थाय विवेश नृपतेस्तनुम् 026a
विदुरो धर्मराजस्य तेजसा प्रज्वलन्निव 026c
विदुरस्य शरीरं तत्तथैव स्तब्धलोचनम् 027a
वृक्षाश्रितं तदा राजा ददर्श गतचेतनम् 027c
बलवन्तं तथात्मानं मेने बहुगुणं तदा 028a
धर्मराजो महातेजास्तच्च सस्मार पाण्डवः 028c
पौराणमात्मनः सर्वं विद्यावान्स विशां पते 029a
योगधर्मं महातेजा व्यासेन कथितं यथा 029c
धर्मराजस्तु तत्रैनं सञ्चस्कारयिषुस्तदा 030a
दग्धुकामोऽभवद्विद्वानथ वै वागभाषत 030c
भो भो राजन्न दग्धव्यमेतद्विदुरसञ्ज्ञकम् 031a
कलेवरमिहैतत्ते धर्म एष सनातनः 031c
लोकाः सन्तानका नाम भविष्यन्त्यस्य पार्थिव 032a
यतिधर्ममवाप्तोऽसौ नैव शोच्यः परन्तप 032c
इत्युक्तो धर्मराजः स विनिवृत्य ततः पुनः 033a
राज्ञो वैचित्रवीर्यस्य तत्सर्वं प्रत्यवेदयत् 033c
ततः स राजा द्युतिमान्स च सर्वो जनस्तदा 034a
भीमसेनादयश्चैव परं विस्मयमागताः 034c
तच्छ्रुत्वा प्रीतिमान्राजा भूत्वा धर्मजमब्रवीत् 035a
आपो मूलं फलं चैव ममेदं प्रतिगृह्यताम् 035c
यदन्नो हि नरो राजंस्तदन्नोऽस्यातिथिः स्मृतः 036a
इत्युक्तः स तथेत्येव प्राह धर्मात्मजो नृपम् 036c
फलं मूलं च बुभुजे राज्ञा दत्तं सहानुजः 036e
ततस्ते वृक्षमूलेषु कृतवासपरिग्रहाः 037a
तां रात्रिं न्यवसन्सर्वे फलमूलजलाशनाः 037c