वैशम्पायन उवाच 001
स तैः सह नरव्याघ्रैर्भ्रातृभिर्भरतर्षभ 001a
राजा रुचिरपद्माक्षैरासां चक्रे तदाश्रमे 001c
तापसैश्च महाभागैर्नानादेशसमागतैः 002a
द्रष्टुं कुरुपतेः पुत्रान्पाण्डवान्पृथुवक्षसः 002c
तेऽब्रुवञ्ज्ञातुमिच्छामः कतमोऽत्र युधिष्ठिरः 003a
भीमार्जुनयमाश्चैव द्रौपदी च यशस्विनी 003c
तानाचख्यौ तदा सूतः सर्वान्नामाभिनामतः 004a
सञ्जयो द्रौपदीं चैव सर्वाश्चान्याः कुरुस्त्रियः 004c
य एष जाम्बूनदशुद्धगौरतनुर्महासिंह इव प्रवृद्धः 005a
प्रचण्डघोणः पृथुदीर्घनेत्रस्ताम्रायतास्यः कुरुराज एषः 005c
अयं पुनर्मत्तगजेन्द्रगामी प्रतप्तचामीकरशुद्धगौरः 006a
पृथ्वायतांसः पृथुदीर्घबाहुर्वृकोदरः पश्यत पश्यतैनम् 006c
यस्त्वेष पार्श्वेऽस्य महाधनुष्माञ्श्यामो युवा वारणयूथपाभः 007a
सिंहोन्नतांसो गजखेलगामी पद्मायताक्षोऽर्जुन एष वीरः 007c
कुन्तीसमीपे पुरुषोत्तमौ तु यमाविमौ विष्णुमहेन्द्रकल्पौ 008a
मनुष्यलोके सकले समोऽस्ति ययोर्न रूपे न बले न शीले 008c
इयं पुनः पद्मदलायताक्षी मध्यं वयः किञ्चिदिव स्पृशन्ती 009a
नीलोत्पलाभा पुरदेवतेव कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः 009c
अस्यास्तु पार्श्वे कनकोत्तमाभा यैषा प्रभा मूर्तिमतीव गौरी 010a
मध्ये स्थितैषा भगिनी द्विजाग्र्या चक्रायुधस्याप्रतिमस्य तस्य 010c
इयं स्वसा राजचमूपतेस्तु प्रवृद्धनीलोत्पलदामवर्णा 011a
पस्पर्ध कृष्णेन नृपः सदा यो वृकोदरस्यैष परिग्रहोऽग्र्यः 011c
इयं च राज्ञो मगधाधिपस्य सुता जरासन्ध इति श्रुतस्य 012a
यवीयसो माद्रवतीसुतस्य भार्या मता चम्पकदामगौरी 012c
इन्दीवरश्यामतनुः स्थिता तु यैषापरासन्नमहीतले च 013a
भार्या मता माद्रवतीसुतस्य ज्येष्ठस्य सेयं कमलायताक्षी 013c
इयं तु निष्टप्तसुवर्णगौरी राज्ञो विराटस्य सुता सपुत्रा 014a
भार्याभिमन्योर्निहतो रणे यो द्रोणादिभिस्तैर्विरथो रथस्थैः 014c
एतास्तु सीमन्तशिरोरुहा याः शुक्लोत्तरीया नरराजपत्न्यः 015a
राज्ञोऽस्य वृद्धस्य परंशताख्याः स्नुषा विवीरा हतपुत्रनाथाः 015c
एता यथामुख्यमुदाहृता वो ब्राह्मण्यभावादृजुबुद्धिसत्त्वाः 016a
सर्वा भवद्भिः परिपृच्छ्यमाना नरेन्द्रपत्न्यः सुविशुद्धसत्त्वाः 016c
एवं स राजा कुरुवृद्धवर्यः समागतस्तैर्नरदेवपुत्रैः 017a
पप्रच्छ सर्वान्कुशलं तदानीं गतेषु सर्वेष्वथ तापसेषु 017c
योधेषु चाप्याश्रममण्डलं तं मुक्त्वा निविष्टेषु विमुच्य पत्रम् 018a
स्त्रीवृद्धबाले च सुसन्निविष्टे यथार्हतः कुशलं पर्यपृच्छत् 018c