वैशम्पायन उवाच 001
ततस्ते पाण्डवा दूरादवतीर्य पदातयः 001a
अभिजग्मुर्नरपतेराश्रमं विनयानताः 001c
स च पौरजनः सर्वो ये च राष्ट्रनिवासिनः 002a
स्त्रियश्च कुरुमुख्यानां पद्भिरेवान्वयुस्तदा 002c
आश्रमं ते ततो जग्मुर्धृतराष्ट्रस्य पाण्डवाः 003a
शून्यं मृगगणाकीर्णं कदलीवनशोभितम् 003c
ततस्तत्र समाजग्मुस्तापसा विविधव्रताः 004a
पाण्डवानागतान्द्रष्टुं कौतूहलसमन्विताः 004c
तानपृच्छत्ततो राजा क्वासौ कौरववंशभृत् 005a
पिता ज्येष्ठो गतोऽस्माकमिति बाष्पपरिप्लुतः 005c
तमूचुस्ते ततो वाक्यं यमुनामवगाहितुम् 006a
पुष्पाणामुदकुम्भस्य चार्थे गत इति प्रभो 006c
तैराख्यातेन मार्गेण ततस्ते प्रययुस्तदा 007a
ददृशुश्चाविदूरे तान्सर्वानथ पदातयः 007c
ततस्ते सत्वरा जग्मुः पितुर्दर्शनकाङ्क्षिणः 008a
सहदेवस्तु वेगेन प्राधावद्येन सा पृथा 008c
सस्वनं प्ररुदन्धीमान्मातुः पादावुपस्पृशन् 009a
सा च बाष्पाविलमुखी प्रददर्श प्रियं सुतम् 009c
बाहुभ्यां सम्परिष्वज्य समुन्नाम्य च पुत्रकम् 010a
गान्धार्याः कथयामास सहदेवमुपस्थितम् 010c
अनन्तरं च राजानं भीमसेनमथार्जुनम् 011a
नकुलं च पृथा दृष्ट्वा त्वरमाणोपचक्रमे 011c
सा ह्यग्रेऽगच्छत तयोर्दम्पत्योर्हतपुत्रयोः 012a
कर्षन्ती तौ ततस्ते तां दृष्ट्वा सम्न्यपतन्भुवि 012c
तान्राजा स्वरयोगेन स्पर्शेन च महामनाः 013a
प्रत्यभिज्ञाय मेधावी समाश्वासयत प्रभुः 013c
ततस्ते बाष्पमुत्सृज्य गान्धारीसहितं नृपम् 014a
उपतस्थुर्महात्मानो मातरं च यथाविधि 014c
सर्वेषां तोयकलशाञ्जगृहुस्ते स्वयं तदा 015a
पाण्डवा लब्धसञ्ज्ञास्ते मात्रा चाश्वासिताः पुनः 015c
ततो नार्यो नृसिंहानां स च योधजनस्तदा 016a
पौरजानपदाश्चैव ददृशुस्तं नराधिपम् 016c
निवेदयामास तदा जनं तं नामगोत्रतः 017a
युधिष्ठिरो नरपतिः स चैनान्प्रत्यपूजयत् 017c
स तैः परिवृतो मेने हर्षबाष्पाविलेक्षणः 018a
राजात्मानं गृहगतं पुरेव गजसाह्वये 018c
अभिवादितो वधूभिश्च कृष्णाद्याभिः स पार्थिवः 019a
गान्धार्या सहितो धीमान्कुन्त्या च प्रत्यनन्दत 019c
ततश्चाश्रममागच्छत्सिद्धचारणसेवितम् 020a
दिदृक्षुभिः समाकीर्णं नभस्तारागणैरिव 020c