वैशम्पायन उवाच 001
आज्ञापयामास ततः सेनां भरतसत्तमः 001a
अर्जुनप्रमुखैर्गुप्तां लोकपालोपमैर्नरैः 001c
योगो योग इति प्रीत्या ततः शब्दो महानभूत् 002a
क्रोशतां सादिनां तत्र युज्यतां युज्यतामिति 002c
केचिद्यानैर्नरा जग्मुः केचिदश्वैर्मनोजवैः 003a
रथैश्च नगराकारैः प्रदीप्तज्वलनोपमैः 003c
गजेन्द्रैश्च तथैवान्ये केचिदुष्ट्रैर्नराधिप 004a
पदातिनस्तथैवान्ये नखरप्रासयोधिनः 004c
पौरजानपदाश्चैव यानैर्बहुविधैस्तथा 005a
अन्वयुः कुरुराजानं धृतराष्ट्रदिदृक्षया 005c
स चापि राजवचनादाचार्यो गौतमः कृपः 006a
सेनामादाय सेनानी प्रययावाश्रमं प्रति 006c
ततो द्विजैर्वृतः श्रीमान्कुरुराजो युधिष्ठिरः 007a
संस्तूयमानो बहुभिः सूतमागधबन्दिभिः 007c
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 008a
रथानीकेन महता निर्ययौ कुरुनन्दनः 008c
गजैश्चाचलसङ्काशैर्भीमकर्मा वृकोदरः 009a
सज्जयन्त्रायुधोपेतैः प्रययौ मारुतात्मजः 009c
माद्रीपुत्रावपि तथा हयारोहैः सुसंवृतौ 010a
जग्मतुः प्रीतिजननौ सन्नद्धकवचध्वजौ 010c
अर्जुनश्च महातेजा रथेनादित्यवर्चसा 011a
वशी श्वेतैर्हयैर्दिव्यैर्युक्तेनान्वगमन्नृपम् 011c
द्रौपदीप्रमुखाश्चापि स्त्रीसङ्घाः शिबिकागताः 012a
स्त्र्यध्यक्षयुक्ताः प्रययुर्विसृजन्तोऽमितं वसु 012c
समृद्धनरनागाश्वं वेणुवीणानिनादितम् 013a
शुशुभे पाण्डवं सैन्यं तत्तदा भरतर्षभ 013c
नदीतीरेषु रम्येषु सरत्सु च विशां पते 014a
वासान्कृत्वा क्रमेणाथ जग्मुस्ते कुरुपुङ्गवाः 014c
युयुत्सुश्च महातेजा धौम्यश्चैव पुरोहितः 015a
युधिष्ठिरस्य वचनात्पुरगुप्तिं प्रचक्रतुः 015c
ततो युधिष्ठिरो राजा कुरुक्षेत्रमवातरत् 016a
क्रमेणोत्तीर्य यमुनां नदीं परमपावनीम् 016c
स ददर्शाश्रमं दूराद्राजर्षेस्तस्य धीमतः 017a
शतयूपस्य कौरव्य धृतराष्ट्रस्य चैव ह 017c
ततः प्रमुदितः सर्वो जनस्तद्वनमञ्जसा 018a
विवेश सुमहानादैरापूर्य भरतर्षभ 018c