वैशम्पायन उवाच 001
एवं ते पुरुषव्याघ्राः पाण्डवा मातृनन्दनाः 001a
स्मरन्तो मातरं वीरा बभूवुर्भृशदुःखिताः 001c
ये राजकार्येषु पुरा व्यासक्ता नित्यशोऽभवन् 002a
ते राजकार्याणि तदा नाकार्षुः सर्वतः पुरे 002c
आविष्टा इव शोकेन नाभ्यनन्दन्त किञ्चन 003a
सम्भाष्यमाणा अपि ते न किञ्चित्प्रत्यपूजयन् 003c
ते स्म वीरा दुराधर्षा गाम्भीर्ये सागरोपमाः 004a
शोकोपहतविज्ञाना नष्टसञ्ज्ञा इवाभवन् 004c
अनुस्मरन्तो जननीं ततस्ते कुरुनन्दनाः 005a
कथं नु वृद्धमिथुनं वहत्यद्य पृथा कृशा 005c
कथं च स महीपालो हतपुत्रो निराश्रयः 006a
पत्न्या सह वसत्येको वने श्वापदसेविते 006c
सा च देवी महाभागा गान्धारी हतबान्धवा 007a
पतिमन्धं कथं वृद्धमन्वेति विजने वने 007c
एवं तेषां कथयतामौत्सुक्यमभवत्तदा 008a
गमने चाभवद्बुद्धिर्धृतराष्ट्रदिदृक्षया 008c
सहदेवस्तु राजानं प्रणिपत्येदमब्रवीत् 009a
अहो मे भवतो दृष्टं हृदयं गमनं प्रति 009c
न हि त्वा गौरवेणाहमशकं वक्तुमात्मना 010a
गमनं प्रति राजेन्द्र तदिदं समुपस्थितम् 010c
दिष्ट्या द्रक्ष्यामि तां कुन्तीं वर्तयन्तीं तपस्विनीम् 011a
जटिलां तापसीं वृद्धां कुशकाशपरिक्षताम् 011c
प्रासादहर्म्यसंवृद्धामत्यन्तसुखभागिनीम् 012a
कदा नु जननीं श्रान्तां द्रक्ष्यामि भृशदुःखिताम् 012c
अनित्याः खलु मर्त्यानां गतयो भरतर्षभ 013a
कुन्ती राजसुता यत्र वसत्यसुखिनी वने 013c
सहदेववचः श्रुत्वा द्रौपदी योषितां वरा 014a
उवाच देवी राजानमभिपूज्याभिनन्द्य च 014c
कदा द्रक्ष्यामि तां देवीं यदि जीवति सा पृथा 015a
जीवन्त्या ह्यद्य नः प्रीतिर्भविष्यति नराधिप 015c
एषा तेऽस्तु मतिर्नित्यं धर्मे ते रमतां मनः 016a
योऽद्य त्वमस्मान्राजेन्द्र श्रेयसा योजयिष्यसि 016c
अग्रपादस्थितं चेमं विद्धि राजन्वधूजनम् 017a
काङ्क्षन्तं दर्शनं कुन्त्या गान्धार्याः श्वशुरस्य च 017c
इत्युक्तः स नृपो देव्या पाञ्चाल्या भरतर्षभ 018a
सेनाध्यक्षान्समानाय्य सर्वानिदमथाब्रवीत् 018c
निर्यातयत मे सेनां प्रभूतरथकुञ्जराम् 019a
द्रक्ष्यामि वनसंस्थं च धृतराष्ट्रं महीपतिम् 019c
स्त्र्यध्यक्षांश्चाब्रवीद्राजा यानानि विविधानि मे 020a
सज्जीक्रियन्तां सर्वाणि शिबिकाश्च सहस्रशः 020c
शकटापणवेशाश्च कोशशिल्पिन एव च 021a
निर्यान्तु कोशपालाश्च कुरुक्षेत्राश्रमं प्रति 021c
यश्च पौरजनः कश्चिद्द्रष्टुमिच्छति पार्थिवम् 022a
अनावृतः सुविहितः स च यातु सुरक्षितः 022c
सूदाः पौरोगवाश्चैव सर्वं चैव महानसम् 023a
विविधं भक्ष्यभोज्यं च शकटैरुह्यतां मम 023c
प्रयाणं घुष्यतां चैव श्वोभूत इति मा चिरम् 024a
क्रियन्तां पथि चाप्यद्य वेश्मानि विविधानि च 024c
एवमाज्ञाप्य राजा स भ्रातृभिः सह पाण्डवः 025a
श्वोभूते निर्ययौ राजा सस्त्रीबालपुरस्कृतः 025c
स बहिर्दिवसानेवं जनौघं परिपालयन् 026a
न्यवसन्नृपतिः पञ्च ततोऽगच्छद्वनं प्रति 026c