वैशम्पायन उवाच 001
वनं गते कौरवेन्द्रे दुःखशोकसमाहताः 001a
बभूवुः पाण्डवा राजन्मातृशोकेन चार्दिताः 001c
तथा पौरजनः सर्वः शोचन्नास्ते जनाधिपम् 002a
कुर्वाणाश्च कथास्तत्र ब्राह्मणा नृपतिं प्रति 002c
कथं नु राजा वृद्धः स वने वसति निर्जने 003a
गान्धारी च महाभागा सा च कुन्ती पृथा कथम् 003c
सुखार्हः स हि राजर्षिर्न सुखं तन्महावनम् 004a
किमवस्थः समासाद्य प्रज्ञाचक्षुर्हतात्मजः 004c
सुदुष्करं कृतवती कुन्ती पुत्रानपश्यती 005a
राज्यश्रियं परित्यज्य वनवासमरोचयत् 005c
विदुरः किमवस्थश्च भ्रातुः शुश्रूषुरात्मवान् 006a
स च गावल्गणिर्धीमान्भर्तृपिण्डानुपालकः 006c
आकुमारं च पौरास्ते चिन्ताशोकसमाहताः 007a
तत्र तत्र कथाश्चक्रुः समासाद्य परस्परम् 007c
पाण्डवाश्चैव ते सर्वे भृशं शोकपरायणाः 008a
शोचन्तो मातरं वृद्धामूषुर्नातिचिरं पुरे 008c
तथैव पितरं वृद्धं हतपुत्रं जनेश्वरम् 009a
गान्धारीं च महाभागां विदुरं च महामतिम् 009c
नैषां बभूव सम्प्रीतिस्तान्विचिन्तयतां तदा 010a
न राज्ये न च नारीषु न वेदाध्ययने तथा 010c
परं निर्वेदमगमंश्चिन्तयन्तो नराधिपम् 011a
तच्च ज्ञातिवधं घोरं संस्मरन्तः पुनः पुनः 011c
अभिमन्योश्च बालस्य विनाशं रणमूर्धनि 012a
कर्णस्य च महाबाहोः सङ्ग्रामेष्वपलायिनः 012c
तथैव द्रौपदेयानामन्येषां सुहृदामपि 013a
वधं संस्मृत्य ते वीरा नातिप्रमनसोऽभवन् 013c
हतप्रवीरां पृथिवीं हतरत्नां च भारत 014a
सदैव चिन्तयन्तस्ते न निद्रामुपलेभिरे 014c
द्रौपदी हतपुत्रा च सुभद्रा चैव भामिनी 015a
नातिप्रीतियुते देव्यौ तदास्तामप्रहृष्टवत् 015c
वैराट्यास्तु सुतं दृष्ट्वा पितरं ते परिक्षितम् 016a
धारयन्ति स्म ते प्राणांस्तव पूर्वपितामहाः 016c