वैशम्पायन उवाच 001
नारदस्य तु तद्वाक्यं प्रशशंसुर्द्विजोत्तमाः 001a
शतयूपस्तु राजर्षिर्नारदं वाक्यमब्रवीत् 001c
अहो भगवता श्रद्धा कुरुराजस्य वर्धिता 002a
सर्वस्य च जनस्यास्य मम चैव महाद्युते 002c
अस्ति काचिद्विवक्षा तु मम तां गदतः शृणु 003a
धृतराष्ट्रं प्रति नृपं देवर्षे लोकपूजित 003c
सर्ववृत्तान्ततत्त्वज्ञो भवान्दिव्येन चक्षुषा 004a
युक्तः पश्यसि देवर्षे गतीर्वै विविधा नृणाम् 004c
उक्तवान्नृपतीनां त्वं महेन्द्रस्य सलोकताम् 005a
न त्वस्य नृपतेर्लोकाः कथितास्ते महामुने 005c
स्थानमस्य क्षितिपतेः श्रोतुमिच्छाम्यहं विभो 006a
त्वत्तः कीदृक्कदा वेति तन्ममाचक्ष्व पृच्छतः 006c
इत्युक्तो नारदस्तेन वाक्यं सर्वमनोनुगम् 007a
व्याजहार सतां मध्ये दिव्यदर्शी महातपाः 007c
यदृच्छया शक्रसदो गत्वा शक्रं शचीपतिम् 008a
दृष्टवानस्मि राजर्षे तत्र पाण्डुं नराधिपम् 008c
तत्रेयं धृतराष्ट्रस्य कथा समभवन्नृप 009a
तपसो दुश्चरस्यास्य यदयं तप्यते नृपः 009c
तत्राहमिदमश्रौषं शक्रस्य वदतो नृप 010a
वर्षाणि त्रीणि शिष्टानि राज्ञोऽस्य परमायुषः 010c
ततः कुबेरभवनं गान्धारीसहितो नृपः 011a
विहर्ता धृतराष्ट्रोऽयं राजराजाभिपूजितः 011c
कामगेन विमानेन दिव्याभरणभूषितः 012a
ऋषिपुत्रो महाभागस्तपसा दग्धकिल्बिषः 012c
सञ्चरिष्यति लोकांश्च देवगन्धर्वरक्षसाम् 013a
स्वच्छन्देनेति धर्मात्मा यन्मां त्वं परिपृच्छसि 013c
देवगुह्यमिदं प्रीत्या मया वः कथितं महत् 014a
भवन्तो हि श्रुतधनास्तपसा दग्धकिल्बिषाः 014c
इति ते तस्य तच्छ्रुत्वा देवर्षेर्मधुरं वचः 015a
सर्वे सुमनसः प्रीता बभूवुः स च पार्थिवः 015c
एवं कथाभिरन्वास्य धृतराष्ट्रं मनीषिणः 016a
विप्रजग्मुर्यथाकामं ते सिद्धगतिमास्थिताः 016c