वैशम्पायन उवाच 001
ततस्तस्मिन्मुनिश्रेष्ठा राजानं द्रष्टुमभ्ययुः 001a
नारदः पर्वतश्चैव देवलश्च महातपाः 001c
द्वैपायनः सशिष्यश्च सिद्धाश्चान्ये मनीषिणः 002a
शतयूपश्च राजर्षिर्वृद्धः परमधार्मिकः 002c
तेषां कुन्ती महाराज पूजां चक्रे यथाविधि 003a
ते चापि तुतुषुस्तस्यास्तापसाः परिचर्यया 003c
तत्र धर्म्याः कथास्तात चक्रुस्ते परमर्षयः 004a
रमयन्तो महात्मानं धृतराष्ट्रं जनाधिपम् 004c
कथान्तरे तु कस्मिंश्चिद्देवर्षिर्नारदस्तदा 005a
कथामिमामकथयत्सर्वप्रत्यक्षदर्शिवान् 005c
पुरा प्रजापतिसमो राजासीदकुतोभयः 006a
सहस्रचित्य इत्युक्तः शतयूपपितामहः 006c
स पुत्रे राज्यमासज्य ज्येष्ठे परमधार्मिके 007a
सहस्रचित्यो धर्मात्मा प्रविवेश वनं नृपः 007c
स गत्वा तपसः पारं दीप्तस्य स नराधिपः 008a
पुरन्दरस्य सम्स्थानं प्रतिपेदे महामनाः 008c
दृष्टपूर्वः स बहुशो राजन्सम्पतता मया 009a
महेन्द्रसदने राजा तपसा दग्धकिल्बिषः 009c
तथा शैलालयो राजा भगदत्तपितामहः 010a
तपोबलेनैव नृपो महेन्द्रसदनं गतः 010c
तथा पृषध्रो नामासीद्राजा वज्रधरोपमः 011a
स चापि तपसा लेभे नाकपृष्ठमितो नृपः 011c
अस्मिन्नरण्ये नृपते मान्धातुरपि चात्मजः 012a
पुरुकुत्सो नृपः सिद्धिं महतीं समवाप्तवान् 012c
भार्या समभवद्यस्य नर्मदा सरितां वरा 013a
सोऽस्मिन्नरण्ये नृपतिस्तपस्तप्त्वा दिवं गतः 013c
शशलोमा च नामासीद्राजा परमधार्मिकः 014a
स चाप्यस्मिन्वने तप्त्वा तपो दिवमवाप्तवान् 014c
द्वैपायनप्रसादाच्च त्वमपीदं तपोवनम् 015a
राजन्नवाप्य दुष्प्रापां सिद्धिमग्र्यां गमिष्यसि 015c
त्वं चापि राजशार्दूल तपसोऽन्ते श्रिया वृतः 016a
गान्धारीसहितो गन्ता गतिं तेषां महात्मनाम् 016c
पाण्डुः स्मरति नित्यं च बलहन्तुः समीपतः 017a
त्वां सदैव महीपाल स त्वां श्रेयसि योक्ष्यति 017c
तव शुश्रूषया चैव गान्धार्याश्च यशस्विनी 018a
भर्तुः सलोकतां कुन्ती गमिष्यति वधूस्तव 018c
युधिष्ठिरस्य जननी स हि धर्मः सनातनः 019a
वयमेतत्प्रपश्यामो नृपते दिव्यचक्षुषा 019c
प्रवेक्ष्यति महात्मानं विदुरश्च युधिष्ठिरम् 020a
सञ्जयस्त्वदनुध्यानात्पूतः स्वर्गमवाप्स्यति 020c
एतच्छ्रुत्वा कौरवेन्द्रो महात्मा सहैव पत्न्या प्रीतिमान्प्रत्यगृह्णात् 021a
विद्वान्वाक्यं नारदस्य प्रशस्य चक्रे पूजां चातुलां नारदाय 021c
तथा सर्वे नारदं विप्रसङ्घाः सम्पूजयामासुरतीव राजन् 022a
राज्ञः प्रीत्या धृतराष्ट्रस्य ते वै पुनः पुनः समहृष्टास्तदानीम् 022c