वैशम्पायन उवाच 001
ततो भागीरथीतीरे मेध्ये पुण्यजनोचिते 001a
निवासमकरोद्राजा विदुरस्य मते स्थितः 001c
तत्रैनं पर्युपातिष्ठन्ब्राह्मणा राष्ट्रवासिनः 002a
क्षत्रविट्शूद्रसङ्घाश्च बहवो भरतर्षभ 002c
स तैः परिवृतो राजा कथाभिरभिनन्द्य तान् 003a
अनुजज्ञे सशिष्यान्वै विधिवत्प्रतिपूज्य च 003c
सायाह्ने स महीपालस्ततो गङ्गामुपेत्य ह 004a
चकार विधिवच्छौचं गान्धारी च यशस्विनी 004c
तथैवान्ये पृथक्सर्वे तीर्थेष्वाप्लुत्य भारत 005a
चक्रुः सर्वाः क्रियास्तत्र पुरुषा विदुरादयः 005c
कृतशौचं ततो वृद्धं श्वशुरं कुन्तिभोजजा 006a
गान्धारीं च पृथा राजन्गङ्गातीरमुपानयत् 006c
राज्ञस्तु याजकैस्तत्र कृतो वेदीपरिस्तरः 007a
जुहाव तत्र वह्निं स नृपतिः सत्यसङ्गरः 007c
ततो भागीरथीतीरात्कुरुक्षेत्रं जगाम सः 008a
सानुगो नृपतिर्विद्वान्नियतः संयतेन्द्रियः 008c
तत्राश्रमपदं धीमानभिगम्य स पार्थिवः 009a
आससादाथ राजर्षिः शतयूपं मनीषिणम् 009c
स हि राजा महानासीत्केकयेषु परन्तपः 010a
स पुत्रं मनुजैश्वर्ये निवेश्य वनमाविशत् 010c
तेनासौ सहितो राजा ययौ व्यासाश्रमं तदा 011a
तत्रैनं विधिवद्राजन्प्रत्यगृह्णात्कुरूद्वहम् 011c
स दीक्षां तत्र सम्प्राप्य राजा कौरवनन्दनः 012a
शतयूपाश्रमे तस्मिन्निवासमकरोत्तदा 012c
तस्मै सर्वं विधिं राजन्राजाचख्यौ महामतिः 013a
आरण्यकं महाराज व्यासस्यानुमते तदा 013c
एवं स तपसा राजा धृतराष्ट्रो महामनाः 014a
योजयामास चात्मानं तांश्चाप्यनुचरांस्तदा 014c
तथैव देवी गान्धारी वल्कलाजिनवासिनी 015a
कुन्त्या सह महाराज समानव्रतचारिणी 015c
कर्मणा मनसा वाचा चक्षुषा चापि ते नृप 016a
सन्नियम्येन्द्रियग्राममास्थिताः परमं तपः 016c
त्वगस्थिभूतः परिशुष्कमांसो जटाजिनी वल्कलसंवृताङ्गः 017a
स पार्थिवस्तत्र तपश्चचार महर्षिवत्तीव्रमपेतदोषः 017c
क्षत्ता च धर्मार्थविदग्र्यबुद्धिः ससञ्जयस्तं नृपतिं सदारम् 018a
उपाचरद्घोरतपो जितात्मा तदा कृशो वल्कलचीरवासाः 018c