वैशम्पायन उवाच 001
कुन्त्यास्तु वचनं श्रुत्वा पाण्डवा राजसत्तम 001a
व्रीडिताः सन्न्यवर्तन्त पाञ्चाल्या सहितानघाः 001c
ततः शब्दो महानासीत्सर्वेषामेव भारत 002a
अन्तःपुराणां रुदतां दृष्ट्वा कुन्तीं तथागताम् 002c
प्रदक्षिणमथावृत्य राजानं पाण्डवास्तदा 003a
अभिवाद्य न्यवर्तन्त पृथां तामनिवर्त्य वै 003c
ततोऽब्रवीन्महाराजो धृतराष्ट्रोऽम्बिकासुतः 004a
गान्धारीं विदुरं चैव समाभाष्य निगृह्य च 004c
युधिष्ठिरस्य जननी देवी साधु निवर्त्यताम् 005a
यथा युधिष्ठिरः प्राह तत्सर्वं सत्यमेव हि 005c
पुत्रैश्वर्यं महदिदमपास्य च महाफलम् 006a
का नु गच्छेद्वनं दुर्गं पुत्रानुत्सृज्य मूढवत् 006c
राज्यस्थया तपस्तप्तं दानं दत्तं व्रतं कृतम् 007a
अनया शक्यमद्येह श्रूयतां च वचो मम 007c
गान्धारि परितुष्टोऽस्मि वध्वाः शुश्रूषणेन वै 008a
तस्मात्त्वमेनां धर्मज्ञे समनुज्ञातुमर्हसि 008c
इत्युक्ता सौबलेयी तु राज्ञा कुन्तीमुवाच ह 009a
तत्सर्वं राजवचनं स्वं च वाक्यं विशेषवत् 009c
न च सा वनवासाय देवीं कृतमतिं तदा 010a
शक्नोत्युपावर्तयितुं कुन्तीं धर्मपरां सतीम् 010c
तस्यास्तु तं स्थिरं ज्ञात्वा व्यवसायं कुरुस्त्रियः 011a
निवृत्तांश्च कुरुश्रेष्ठान्दृष्ट्वा प्ररुरुदुस्तदा 011c
उपावृत्तेषु पार्थेषु सर्वेष्वन्तःपुरेषु च 012a
ययौ राजा महाप्राज्ञो धृतराष्ट्रो वनं तदा 012c
पाण्डवा अपि दीनास्ते दुःखशोकपरायणाः 013a
यानैः स्त्रीसहिताः सर्वे पुरं प्रविविशुस्तदा 013c
तदहृष्टमिवाकूजं गतोत्सवमिवाभवत् 014a
नगरं हास्तिनपुरं सस्त्रीवृद्धकुमारकम् 014c
सर्वे चासन्निरुत्साहाः पाण्डवा जातमन्यवः 015a
कुन्त्या हीनाः सुदुःखार्ता वत्सा इव विनाकृताः 015c
धृतराष्ट्रस्तु तेनाह्ना गत्वा सुमहदन्तरम् 016a
ततो भागीरथीतीरे निवासमकरोत्प्रभुः 016c
प्रादुष्कृता यथान्यायमग्नयो वेदपारगैः 017a
व्यराजन्त द्विजश्रेष्ठैस्तत्र तत्र तपोधनैः 017c
प्रादुष्कृताग्निरभवत्स च वृद्धो नराधिपः 017e
स राजाग्नीन्पर्युपास्य हुत्वा च विधिवत्तदा 018a
सन्ध्यागतं सहस्रांशुमुपातिष्ठत भारत 018c
विदुरः सञ्जयश्चैव राज्ञः शय्यां कुशैस्ततः 019a
चक्रतुः कुरुवीरस्य गान्धार्याश्चाविदूरतः 019c
गान्धार्याः सन्निकर्षे तु निषसाद कुशेष्वथ 020a
युधिष्ठिरस्य जननी कुन्ती साधुव्रते स्थिता 020c
तेषां संश्रवणे चापि निषेदुर्विदुरादयः 021a
याजकाश्च यथोद्देशं द्विजा ये चानुयायिनः 021c
प्राधीतद्विजमुख्या सा सम्प्रज्वालितपावका 022a
बभूव तेषां रजनी ब्राह्मीव प्रीतिवर्धनी 022c
ततो रात्र्यां व्यतीतायां कृतपूर्वाह्णिकक्रियाः 023a
हुत्वाग्निं विधिवत्सर्वे प्रययुस्ते यथाक्रमम् 023c
उदङ्मुखा निरीक्षन्त उपवासपरायणाः 023e
स तेषामतिदुःखोऽभून्निवासः प्रथमेऽहनि 024a
शोचतां शोच्यमानानां पौरजानपदैर्जनैः 024c