कुन्त्युवाच 001
एवमेतन्महाबाहो यथा वदसि पाण्डव 001a
कृतमुद्धर्षणं पूर्वं मया वः सीदतां नृप 001c
द्यूतापहृतराज्यानां पतितानां सुखादपि 002a
ज्ञातिभिः परिभूतानां कृतमुद्धर्षणं मया 002c
कथं पाण्डोर्न नश्येत सन्ततिः पुरुषर्षभाः 003a
यशश्च वो न नश्येत इति चोद्धर्षणं कृतम् 003c
यूयमिन्द्रसमाः सर्वे देवतुल्यपराक्रमाः 004a
मा परेषां मुखप्रेक्षाः स्थेत्येवं तत्कृतं मया 004c
कथं धर्मभृतां श्रेष्ठो राजा त्वं वासवोपमः 005a
पुनर्वने न दुःखी स्या इति चोद्धर्षणं कृतम् 005c
नागायुतसमप्राणः ख्यातविक्रमपौरुषः 006a
नायं भीमोऽत्ययं गच्छेदिति चोद्धर्षणं कृतम् 006c
भीमसेनादवरजस्तथायं वासवोपमः 007a
विजयो नावसीदेत इति चोद्धर्षणं कृतम् 007c
नकुलः सहदेवश्च तथेमौ गुरुवर्तिनौ 008a
क्षुधा कथं न सीदेतामिति चोद्धर्षणं कृतम् 008c
इयं च बृहती श्यामा श्रीमत्यायतलोचना 009a
वृथा सभातले क्लिष्टा मा भूदिति च तत्कृतम् 009c
प्रेक्षन्त्या मे तदा हीमां वेपन्तीं कदलीमिव 010a
स्त्रीधर्मिणीमनिन्द्याङ्गीं तथा द्यूतपराजिताम् 010c
दुःशासनो यदा मौढ्याद्दासीवत्पर्यकर्षत 011a
तदैव विदितं मह्यं पराभूतमिदं कुलम् 011c
विषण्णाः कुरवश्चैव तदा मे श्वशुरादयः 012a
यदैषा नाथमिच्छन्ती व्यलपत्कुररी यथा 012c
केशपक्षे परामृष्टा पापेन हतबुद्धिना 013a
यदा दुःशासनेनैषा तदा मुह्याम्यहं नृप 013c
युष्मत्तेजोविवृद्ध्यर्थं मया ह्युद्धर्षणं कृतम् 014a
तदानीं विदुरावाक्यैरिति तद्वित्त पुत्रकाः 014c
कथं न राजवंशोऽयं नश्येत्प्राप्य सुतान्मम 015a
पाण्डोरिति मया पुत्र तस्मादुद्धर्षणं कृतम् 015c
न तस्य पुत्रः पौत्रौ वा कुत एव स पार्थिव 016a
लभते सुकृताल्ँलोकान्यस्माद्वंशः प्रणश्यति 016c
भुक्तं राज्यफलं पुत्रा भर्तुर्मे विपुलं पुरा 017a
महादानानि दत्तानि पीतः सोमो यथाविधि 017c
साहं नात्मफलार्थं वै वासुदेवमचूचुदम् 018a
विदुरायाः प्रलापैस्तैः प्लावनार्थं तु तत्कृतम् 018c
नाहं राज्यफलं पुत्र कामये पुत्रनिर्जितम् 019a
पतिलोकानहं पुण्यान्कामये तपसा विभो 019c
श्वश्रूश्वशुरयोः कृत्वा शुश्रूषां वनवासिनोः 020a
तपसा शोषयिष्यामि युधिष्ठिर कलेवरम् 020c
निवर्तस्व कुरुश्रेष्ठ भीमसेनादिभिः सह 021a
धर्मे ते धीयतां बुद्धिर्मनस्ते महदस्तु च 021c