वैशम्पायन उवाच 001
ततः प्रासादहर्म्येषु वसुधायां च पार्थिव 001a
स्त्रीणां च पुरुषाणां च सुमहान्निस्वनोऽभवत् 001c
स राजा राजमार्गेण नृनारीसङ्कुलेन च 002a
कथञ्चिन्निर्ययौ धीमान्वेपमानः कृताञ्जलिः 002c
स वर्धमानद्वारेण निर्ययौ गजसाह्वयात् 003a
विसर्जयामास च तं जनौघं स मुहुर्मुहुः 003c
वनं गन्तुं च विदुरो राज्ञा सह कृतक्षणः 004a
सञ्जयश्च महामात्रः सूतो गावल्गणिस्तथा 004c
कृपं निवर्तयामास युयुत्सुं च महारथम् 005a
धृतराष्ट्रो महीपालः परिदाय युधिष्ठिरे 005c
निवृत्ते पौरवर्गे तु राजा सान्तःपुरस्तदा 006a
धृतराष्ट्राभ्यनुज्ञातो निवर्तितुमियेष सः 006c
सोऽब्रवीन्मातरं कुन्तीमुपेत्य भरतर्षभ 007a
अहं राजानमन्विष्ये भवती विनिवर्तताम् 007c
वधूपरिवृता राज्ञि नगरं गन्तुमर्हसि 008a
राजा यात्वेष धर्मात्मा तपसे धृतनिश्चयः 008c
इत्युक्ता धर्मराजेन बाष्पव्याकुललोचना 009a
जगादैवं तदा कुन्ती गान्धारीं परिगृह्य ह 009c
सहदेवे महाराज मा प्रमादं कृथाः क्वचित् 010a
एष मामनुरक्तो हि राजंस्त्वां चैव नित्यदा 010c
कर्णं स्मरेथाः सततं सङ्ग्रामेष्वपलायिनम् 011a
अवकीर्णो हि स मया वीरो दुष्प्रज्ञया तदा 011c
आयसं हृदयं नूनं मन्दाया मम पुत्रक 012a
यत्सूर्यजमपश्यन्त्याः शतधा न विदीर्यते 012c
एवङ्गते तु किं शक्यं मया कर्तुमरिन्दम 013a
मम दोषोऽयमत्यर्थं ख्यापितो यन्न सूर्यजः 013c
तन्निमित्तं महाबाहो दानं दद्यास्त्वमुत्तमम् 013e
सदैव भ्रातृभिः सार्धमग्रजस्यारिमर्दन 014a
द्रौपद्याश्च प्रिये नित्यं स्थातव्यमरिकर्शन 014c
भीमसेनार्जुनौ चैव नकुलश्च कुरूद्वह 015a
समाधेयास्त्वया वीर त्वय्यद्य कुलधूर्गता 015c
श्वश्रूश्वशुरयोः पादाञ्शुश्रूषन्ती वने त्वहम् 016a
गान्धारीसहिता वत्स्ये तापसी मलपङ्किनी 016c
एवमुक्तः स धर्मात्मा भ्रातृभिः सहितो वशी 017a
विषादमगमत्तीव्रं न च किञ्चिदुवाच ह 017c
स मुहूर्तमिव ध्यात्वा धर्मपुत्रो युधिष्ठिरः 018a
उवाच मातरं दीनश्चिन्ताशोकपरायणः 018c
किमिदं ते व्यवसितं नैवं त्वं वक्तुमर्हसि 019a
न त्वामभ्यनुजानामि प्रसादं कर्तुमर्हसि 019c
व्यरोचयः पुरा ह्यस्मानुत्साह्य प्रियदर्शने 020a
विदुराया वचोभिस्त्वमस्मान्न त्यक्तुमर्हसि 020c
निहत्य पृथिवीपालान्राज्यं प्राप्तमिदं मया 021a
तव प्रज्ञामुपश्रुत्य वासुदेवान्नरर्षभात् 021c
क्व सा बुद्धिरियं चाद्य भवत्या या श्रुता मया 022a
क्षत्रधर्मे स्थितिं ह्युक्त्वा तस्याश्चलितुमिच्छसि 022c
अस्मानुत्सृज्य राज्यं च स्नुषां चेमां यशस्विनीम् 023a
कथं वत्स्यसि शून्येषु वनेष्वम्ब प्रसीद मे 023c
इति बाष्पकलां वाचं कुन्ती पुत्रस्य शृण्वती 024a
जगामैवाश्रुपूर्णाक्षी भीमस्तामिदमब्रवीत् 024c
यदा राज्यमिदं कुन्ति भोक्तव्यं पुत्रनिर्जितम् 025a
प्राप्तव्या राजधर्माश्च तदेयं ते कुतो मतिः 025c
किं वयं कारिताः पूर्वं भवत्या पृथिवीक्षयम् 026a
कस्य हेतोः परित्यज्य वनं गन्तुमभीप्ससि 026c
वनाच्चापि किमानीता भवत्या बालका वयम् 027a
दुःखशोकसमाविष्टौ माद्रीपुत्राविमौ तथा 027c
प्रसीद मातर्मा गास्त्वं वनमद्य यशस्विनि 028a
श्रियं यौधिष्ठिरीं तावद्भुङ्क्ष्व पार्थबलार्जिताम् 028c
इति सा निश्चितैवाथ वनवासकृतक्षणा 029a
लालप्यतां बहुविधं पुत्राणां नाकरोद्वचः 029c
द्रौपदी चान्वयाच्छ्वश्रूं विषण्णवदना तदा 030a
वनवासाय गच्छन्तीं रुदती भद्रया सह 030c
सा पुत्रान्रुदतः सर्वान्मुहुर्मुहुरवेक्षती 031a
जगामैव महाप्राज्ञा वनाय कृतनिश्चया 031c
अन्वयुः पाण्डवास्तां तु सभृत्यान्तःपुरास्तदा 032a
ततः प्रमृज्य साश्रूणि पुत्रान्वचनमब्रवीत् 032c