वैशम्पायन उवाच 001
ततः प्रभाते राजा स धृतराष्ट्रोऽम्बिकासुतः 001a
आहूय पाण्डवान्वीरान्वनवासकृतक्षणः 001c
गान्धारीसहितो धीमानभिनन्द्य यथाविधि 002a
कार्त्तिक्यां कारयित्वेष्टिं ब्राह्मणैर्वेदपारगैः 002c
अग्निहोत्रं पुरस्कृत्य वल्कलाजिनसंवृतः 003a
वधूपरिवृतो राजा निर्ययौ भवनात्ततः 003c
ततः स्त्रियः कौरवपाण्डवानां याश्चाप्यन्याः कौरवराजवंश्याः 004a
तासां नादः प्रादुरासीत्तदानीं वैचित्रवीर्ये नृपतौ प्रयाते 004c
ततो लाजैः सुमनोभिश्च राजा विचित्राभिस्तद्गृहं पूजयित्वा 005a
संयोज्यार्थैर्भृत्यजनं च सर्वं ततः समुत्सृज्य ययौ नरेन्द्रः 005c
ततो राजा प्राञ्जलिर्वेपमानो युधिष्ठिरः सस्वनं बाष्पकण्ठः 006a
विलप्योच्चैर्हा महाराज साधो क्व गन्तासीत्यपतत्तात भूमौ 006c
तथार्जुनस्तीव्रदुःखाभितप्तो मुहुर्मुहुर्निःश्वसन्भारताग्र्यः 007a
युधिष्ठिरं मैवमित्येवमुक्त्वा निगृह्याथोदीधरत्सीदमानः 007c
वृकोदरः फल्गुनश्चैव वीरौ माद्रीपुत्रौ विदुरः सञ्जयश्च 008a
वैश्यापुत्रः सहितो गौतमेन धौम्यो विप्राश्चान्वयुर्बाष्पकण्ठाः 008c
कुन्ती गान्धारीं बद्धनेत्रां व्रजन्तीं स्कन्धासक्तं हस्तमथोद्वहन्ती 009a
राजा गान्धार्याः स्कन्धदेशेऽवसज्य पाणिं ययौ धृतराष्ट्रः प्रतीतः 009c
तथा कृष्णा द्रौपदी यादवी च बालापत्या चोत्तरा कौरवी च 010a
चित्राङ्गदा याश्च काश्चित्स्त्रियोऽन्याः सार्धं राज्ञा प्रस्थितास्ता वधूभिः 010c
तासां नादो रुदतीनां तदासीद्राजन्दुःखात्कुररीणामिवोच्चैः 011a
ततो निष्पेतुर्ब्राह्मणक्षत्रियाणां विट्शूद्राणां चैव नार्यः समन्तात् 011c
तन्निर्याणे दुःखितः पौरवर्गो गजाह्वयेऽतीव बभूव राजन् 012a
यथा पूर्वं गच्छतां पाण्डवानां द्यूते राजन्कौरवाणां सभायाम् 012c
या नापश्यच्चन्द्रमा नैव सूर्यो रामाः कदाचिदपि तस्मिन्नरेन्द्रे 013a
महावनं गच्छति कौरवेन्द्रे शोकेनार्ता राजमार्गं प्रपेदुः 013c