वैशम्पायन उवाच 001
विदुरेणैवमुक्तस्तु धृतराष्ट्रो जनाधिपः 001a
प्रीतिमानभवद्राजा राज्ञो जिष्णोश्च कर्मणा 001c
ततोऽभिरूपान्भीष्माय ब्राह्मणानृषिसत्तमान् 002a
पुत्रार्थे सुहृदां चैव स समीक्ष्य सहस्रशः 002c
कारयित्वान्नपानानि यानान्याच्छादनानि च 003a
सुवर्णमणिरत्नानि दासीदासपरिच्छदान् 003c
कम्बलाजिनरत्नानि ग्रामान्क्षेत्रानजाविकम् 004a
अलङ्कारान्गजानश्वान्कन्याश्चैव वरस्त्रियः 004c
आदिश्यादिश्य विप्रेभ्यो ददौ स नृपसत्तमः 004e
द्रोणं सङ्कीर्त्य भीष्मं च सोमदत्तं च बाह्लिकम् 005a
दुर्योधनं च राजानं पुत्रांश्चैव पृथक्पृथक् 005c
जयद्रथपुरोगांश्च सुहृदश्चैव सर्वशः 005e
स श्राद्धयज्ञो ववृधे बहुगोधनदक्षिणः 006a
अनेकधनरत्नौघो युधिष्ठिरमते तदा 006c
अनिशं यत्र पुरुषा गणका लेखकास्तथा 007a
युधिष्ठिरस्य वचनात्तदापृच्छन्ति तं नृपम् 007c
आज्ञापय किमेतेभ्यः प्रदेयं दीयतामिति 008a
तदुपस्थितमेवात्र वचनान्ते प्रदृश्यते 008c
शते देये दशशतं सहस्रे चायुतं तथा 009a
दीयते वचनाद्राज्ञः कुन्तीपुत्रस्य धीमतः 009c
एवं स वसुधाराभिर्वर्षमाणो नृपाम्बुदः 010a
तर्पयामास विप्रांस्तान्वर्षन्भूमिमिवाम्बुदः 010c
ततोऽनन्तरमेवात्र सर्ववर्णान्महीपतिः 011a
अन्नपानरसौघेन प्लावयामास पार्थिवः 011c
सवस्त्रफेनरत्नौघो मृदङ्गनिनदस्वनः 012a
गवाश्वमकरावर्तो नारीरत्नमहाकरः 012c
ग्रामाग्रहारकुल्याढ्यो मणिहेमजलार्णवः 013a
जगत्सम्प्लावयामास धृतराष्ट्रदयाम्बुधिः 013c
एवं स पुत्रपौत्राणां पितॄणामात्मनस्तथा 014a
गान्धार्याश्च महाराज प्रददावौर्ध्वदेहिकम् 014c
परिश्रान्तो यदासीत्स ददद्दानान्यनेकशः 015a
ततो निर्वर्तयामास दानयज्ञं कुरूद्वहः 015c
एवं स राजा कौरव्यश्चक्रे दानमहोत्सवम् 016a
नटनर्तकलास्याढ्यं बह्वन्नरसदक्षिणम् 016c
दशाहमेवं दानानि दत्त्वा राजाम्बिकासुतः 017a
बभूव पुत्रपौत्राणामनृणो भरतर्षभ 017c