वैशम्पायन उवाच 001
एवमुक्तस्तु राज्ञा स विदुरो बुद्धिसत्तमः 001a
धृतराष्ट्रमुपेत्येदं वाक्यमाह महार्थवत् 001c
उक्तो युधिष्ठिरो राजा भवद्वचनमादितः 002a
स च संश्रुत्य वाक्यं ते प्रशशंस महाद्युतिः 002c
बीभत्सुश्च महातेजा निवेदयति ते गृहान् 003a
वसु तस्य गृहे यच्च प्राणानपि च केवलान् 003c
धर्मराजश्च पुत्रस्ते राज्यं प्राणान्धनानि च 004a
अनुजानाति राजर्षे यच्चान्यदपि किञ्चन 004c
भीमस्तु सर्वदुःखानि संस्मृत्य बहुलान्युत 005a
कृच्छ्रादिव महाबाहुरनुमन्ये विनिःश्वसन् 005c
स राज्ञा धर्मशीलेन भ्रात्रा बीभत्सुना तथा 006a
अनुनीतो महाबाहुः सौहृदे स्थापितोऽपि च 006c
न च मन्युस्त्वया कार्य इति त्वां प्राह धर्मराट् 007a
संस्मृत्य भीमस्तद्वैरं यदन्यायवदाचरेत् 007c
एवं प्रायो हि धर्मोऽयं क्षत्रियाणां नराधिप 008a
युद्धे क्षत्रियधर्मे च निरतोऽयं वृकोदरः 008c
वृकोदरकृते चाहमर्जुनश्च पुनः पुनः 009a
प्रसादयाव नृपते भवान्प्रभुरिहास्ति यत् 009c
प्रददातु भवान्वित्तं यावदिच्छसि पार्थिव 010a
त्वमीश्वरो नो राज्यस्य प्राणानां चेति भारत 010c
ब्रह्मदेयाग्रहारांश्च पुत्राणां चौर्ध्वदेहिकम् 011a
इतो रत्नानि गाश्चैव दासीदासमजाविकम् 011c
आनयित्वा कुरुश्रेष्ठो ब्राह्मणेभ्यः प्रयच्छतु 012a
दीनान्धकृपणेभ्यश्च तत्र तत्र नृपाज्ञया 012c
बह्वन्नरसपानाढ्याः सभा विदुर कारय 013a
गवां निपानान्यन्यच्च विविधं पुण्यकर्म यत् 013c
इति मामब्रवीद्राजा पार्थश्चैव धनञ्जयः 014a
यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति 014c
इत्युक्तो विदुरेणाथ धृतराष्ट्रोऽभिनन्द्य तत् 015a
मनश्चक्रे महादाने कार्त्तिक्यां जनमेजय 015c