अर्जुन उवाच 001
भीम ज्येष्ठो गुरुर्मे त्वं नातोऽन्यद्वक्तुमुत्सहे 001a
धृतराष्ट्रो हि राजर्षिः सर्वथा मानमर्हति 001c
न स्मरन्त्यपराद्धानि स्मरन्ति सुकृतानि च 002a
असम्भिन्नार्थमर्यादाः साधवः पुरुषोत्तमाः 002c
इदं मद्वचनात्क्षत्तः कौरवं ब्रूहि पार्थिवम् 003a
यावदिच्छति पुत्राणां दातुं तावद्ददाम्यहम् 003c
भीष्मादीनां च सर्वेषां सुहृदामुपकारिणाम् 004a
मम कोशादिति विभो मा भूद्भीमः सुदुर्मनाः 004c
वैशम्पायन उवाच 005
इत्युक्ते धर्मराजस्तमर्जुनं प्रत्यपूजयत् 005a
भीमसेनः कटाक्षेण वीक्षां चक्रे धनञ्जयम् 005c
ततः स विदुरं धीमान्वाक्यमाह युधिष्ठिरः 006a
न भीमसेने कोपं स नृपतिः कर्तुमर्हति 006c
परिक्लिष्टो हि भीमोऽयं हिमवृष्ट्यातपादिभिः 007a
दुःखैर्बहुविधैर्धीमानरण्ये विदितं तव 007c
किं तु मद्वचनाद्ब्रूहि राजानं भरतर्षभम् 008a
यद्यदिच्छसि यावच्च गृह्यतां मद्गृहादिति 008c
यन्मात्सर्यमयं भीमः करोति भृशदुःखितः 009a
न तन्मनसि कर्तव्यमिति वाच्यः स पार्थिवः 009c
यन्ममास्ति धनं किञ्चिदर्जुनस्य च वेश्मनि 010a
तस्य स्वामी महाराज इति वाच्यः स पार्थिवः 010c
ददातु राजा विप्रेभ्यो यथेष्टं क्रियतां व्ययः 011a
पुत्राणां सुहृदां चैव गच्छत्वानृण्यमद्य सः 011c
इदं चापि शरीरं मे तवायत्तं जनाधिप 012a
धनानि चेति विद्धि त्वं क्षत्तर्नास्त्यत्र संशयः 012c