वैशम्पायन उवाच 001
व्युषितायां रजन्यां तु धृतराष्ट्रोऽम्बिकासुतः 001a
विदुरं प्रेषयामास युधिष्ठिरनिवेशनम् 001c
स गत्वा राजवचनादुवाचाच्युतमीश्वरम् 002a
युधिष्ठिरं महातेजाः सर्वबुद्धिमतां वरः 002c
धृतराष्ट्रो महाराज वनवासाय दीक्षितः 003a
गमिष्यति वनं राजन्कार्त्तिकीमागतामिमाम् 003c
स त्वा कुरुकुलश्रेष्ठ किञ्चिदर्थमभीप्सति 004a
श्राद्धमिच्छति दातुं स गाङ्गेयस्य महात्मनः 004c
द्रोणस्य सोमदत्तस्य बाह्लीकस्य च धीमतः 005a
पुत्राणां चैव सर्वेषां ये चास्य सुहृदो हताः 005c
यदि चाभ्यनुजानीषे सैन्धवापसदस्य च 005e
एतच्छ्रुत्वा तु वचनं विदुरस्य युधिष्ठिरः 006a
हृष्टः सम्पूजयामास गुडाकेशश्च पाण्डवः 006c
न तु भीमो दृढक्रोधस्तद्वचो जगृहे तदा 007a
विदुरस्य महातेजा दुर्योधनकृतं स्मरन् 007c
अभिप्रायं विदित्वा तु भीमसेनस्य फल्गुनः 008a
किरीटी किञ्चिदानम्य भीमं वचनमब्रवीत् 008c
भीम राजा पिता वृद्धो वनवासाय दीक्षितः 009a
दातुमिच्छति सर्वेषां सुहृदामौर्ध्वदेहिकम् 009c
भवता निर्जितं वित्तं दातुमिच्छति कौरवः 010a
भीष्मादीनां महाबाहो तदनुज्ञातुमर्हसि 010c
दिष्ट्या त्वद्य महाबाहो धृतराष्ट्रः प्रयाचति 011a
याचितो यः पुरास्माभिः पश्य कालस्य पर्ययम् 011c
योऽसौ पृथिव्याः कृत्स्नाया भर्ता भूत्वा नराधिपः 012a
परैर्विनिहतापत्यो वनं गन्तुमभीप्सति 012c
मा तेऽन्यत्पुरुषव्याघ्र दानाद्भवतु दर्शनम् 013a
अयशस्यमतोऽन्यत्स्यादधर्म्यं च महाभुज 013c
राजानमुपतिष्ठस्व ज्येष्ठं भ्रातरमीश्वरम् 014a
अर्हस्त्वमसि दातुं वै नादातुं भरतर्षभ 014c
एवं ब्रुवाणं कौन्तेयं धर्मराजोऽभ्यपूजयत् 014e
भीमसेनस्तु सक्रोधः प्रोवाचेदं वचस्तदा 015a
वयं भीष्मस्य कुर्मेह प्रेतकार्याणि फल्गुन 015c
सोमदत्तस्य नृपतेर्भूरिश्रवस एव च 016a
बाह्लीकस्य च राजर्षेर्द्रोणस्य च महात्मनः 016c
अन्येषां चैव सुहृदां कुन्ती कर्णाय दास्यति 017a
श्राद्धानि पुरुषव्याघ्र मादात्कौरवको नृपः 017c
इति मे वर्तते बुद्धिर्मा वो नन्दन्तु शत्रवः 018a
कष्टात्कष्टतरं यान्तु सर्वे दुर्योधनादयः 018c
यैरियं पृथिवी सर्वा घातिता कुलपांसनैः 018e
कुतस्त्वमद्य विस्मृत्य वैरं द्वादशवार्षिकम् 019a
अज्ञातवासगमनं द्रौपदीशोकवर्धनम् 019c
क्व तदा धृतराष्ट्रस्य स्नेहोऽस्मास्वभवत्तदा 019e
कृष्णाजिनोपसंवीतो हृताभरणभूषणः 020a
सार्धं पाञ्चालपुत्र्या त्वं राजानमुपजग्मिवान् 020c
क्व तदा द्रोणभीष्मौ तौ सोमदत्तोऽपि वाभवत् 020e
यत्र त्रयोदश समा वने वन्येन जीवसि 021a
न तदा त्वा पिता ज्येष्ठः पितृत्वेनाभिवीक्षते 021c
किं ते तद्विस्मृतं पार्थ यदेष कुलपांसनः 022a
दुर्वृत्तो विदुरं प्राह द्यूते किं जितमित्युत 022c
तमेवंवादिनं राजा कुन्तीपुत्रो युधिष्ठिरः 023a
उवाच भ्रातरं धीमाञ्जोषमास्वेति भर्त्सयन् 023c