ब्राह्मण उवाच 001
न तद्दुर्योधनकृतं न च तद्भवता कृतम् 001a
न कर्णसौबलाभ्यां च कुरवो यत्क्षयं गताः 001c
दैवं तत्तु विजानीमो यन्न शक्यं प्रबाधितुम् 002a
दैवं पुरुषकारेण न शक्यमतिवर्तितुम् 002c
अक्षौहिण्यो महाराज दशाष्टौ च समागताः 003a
अष्टादशाहेन हता दशभिर्योधपुङ्गवैः 003c
भीष्मद्रोणकृपाद्यैश्च कर्णेन च महात्मना 004a
युयुधानेन वीरेण धृष्टद्युम्नेन चैव ह 004c
चतुर्भिः पाण्डुपुत्रैश्च भीमार्जुनयमैर्नृप 005a
जनक्षयोऽयं नृपते कृतो दैवबलात्कृतैः 005c
अवश्यमेव सङ्ग्रामे क्षत्रियेण विशेषतः 006a
कर्तव्यं निधनं लोके शस्त्रेण क्षत्रबन्धुना 006c
तैरियं पुरुषव्याघ्रैर्विद्याबाहुबलान्वितैः 007a
पृथिवी निहता सर्वा सहया सरथद्विपा 007c
न स राजापराध्नोति पुत्रस्तव महामनाः 008a
न भवान्न च ते भृत्या न कर्णो न च सौबलः 008c
यद्विनष्टाः कुरुश्रेष्ठा राजानश्च सहस्रशः 009a
सर्वं दैवकृतं तद्वै कोऽत्र किं वक्तुमर्हति 009c
गुरुर्मतो भवानस्य कृत्स्नस्य जगतः प्रभुः 010a
धर्मात्मानमतस्तुभ्यमनुजानीमहे सुतम् 010c
लभतां वीरलोकान्स ससहायो नराधिपः 011a
द्विजाग्र्यैः समनुज्ञातस्त्रिदिवे मोदतां सुखी 011c
प्राप्स्यते च भवान्पुण्यं धर्मे च परमां स्थितिम् 012a
वेद पुण्यं च कार्त्स्न्येन सम्यग्भरतसत्तम 012c
दृष्टापदानाश्चास्माभिः पाण्डवाः पुरुषर्षभाः 013a
समर्थास्त्रिदिवस्यापि पालने किं पुनः क्षितेः 013c
अनुवत्स्यन्ति चापीमाः समेषु विषमेषु च 014a
प्रजाः कुरुकुलश्रेष्ठ पाण्डवाञ्शीलभूषणान् 014c
ब्रह्मदेयाग्रहारांश्च परिहारांश्च पार्थिव 015a
पूर्वराजातिसर्गांश्च पालयत्येव पाण्डवः 015c
दीर्घदर्शी कृतप्रज्ञः सदा वैश्रवणो यथा 016a
अक्षुद्रसचिवश्चायं कुन्तीपुत्रो महामनाः 016c
अप्यमित्रे दयावांश्च शुचिश्च भरतर्षभ 017a
ऋजु पश्यति मेधावी पुत्रवत्पाति नः सदा 017c
विप्रियं च जनस्यास्य सम्सर्गाद्धर्मजस्य वै 018a
न करिष्यन्ति राजर्षे तथा भीमार्जुनादयः 018c
मन्दा मृदुषु कौरव्यास्तीक्ष्णेष्वाशीविषोपमाः 019a
वीर्यवन्तो महात्मानः पौराणां च हिते रताः 019c
न कुन्ती न च पाञ्चाली न चोलूपी न सात्वती 020a
अस्मिञ्जने करिष्यन्ति प्रतिकूलानि कर्हिचित् 020c
भवत्कृतमिमं स्नेहं युधिष्ठिरविवर्धितम् 021a
न पृष्ठतः करिष्यन्ति पौरजानपदा जनाः 021c
अधर्मिष्ठानपि सतः कुन्तीपुत्रा महारथाः 022a
मानवान्पालयिष्यन्ति भूत्वा धर्मपरायणाः 022c
स राजन्मानसं दुःखमपनीय युधिष्ठिरात् 023a
कुरु कार्याणि धर्म्याणि नमस्ते भरतर्षभ 023c
वैशम्पायन उवाच 024
तस्य तद्वचनं धर्म्यमनुबन्धगुणोत्तरम् 024a
साधु साध्विति सर्वः स जनः प्रतिगृहीतवान् 024c
धृतराष्ट्रश्च तद्वाक्यमभिपूज्य पुनः पुनः 025a
विसर्जयामास तदा सर्वास्तु प्रकृतीः शनैः 025c
स तैः सम्पूजितो राजा शिवेनावेक्षितस्तदा 026a
प्राञ्जलिः पूजयामास तं जनं भरतर्षभ 026c
ततो विवेश भुवनं गान्धार्या सहितो नृपः 027a
व्युष्टायां चैव शर्वर्यां यच्चकार निबोध तत् 027c