वैशम्पायन उवाच 001
एवमुक्तास्तु ते तेन पौरजानपदा जनाः 001a
वृद्धेन राज्ञा कौरव्य नष्टसञ्ज्ञा इवाभवन् 001c
तूष्णीम्भूतांस्ततस्तांस्तुबाष्पकण्ठान्महीपतिः 002a
धृतराष्ट्रो महीपालः पुनरेवाभ्यभाषत 002c
वृद्धं मां हतपुत्रं च धर्मपत्न्या सहानया 003a
विलपन्तं बहुविधं कृपणं चैव सत्तमाः 003c
पित्रा स्वयमनुज्ञातं कृष्णद्वैपायनेन वै 004a
वनवासाय धर्मज्ञा धर्मज्ञेन नृपेण च 004c
सोऽहं पुनः पुनर्याचे शिरसावनतोऽनघाः 005a
गान्धार्या सहितं तन्मां समनुज्ञातुमर्हथ 005c
श्रुत्वा तु कुरुराजस्य वाक्यानि करुणानि ते 006a
रुरुदुः सर्वतो राजन्समेताः कुरुजाङ्गलाः 006c
उत्तरीयैः करैश्चापि सञ्छाद्य वदनानि ते 007a
रुरुदुः शोकसन्तप्ता मुहूर्तं पितृमातृवत् 007c
हृदयैः शून्यभूतैस्ते धृतराष्ट्रप्रवासजम् 008a
दुःखं सन्धारयन्तः स्म नष्टसञ्ज्ञा इवाभवन् 008c
ते विनीय तमायासं कुरुराजवियोगजम् 009a
शनैः शनैस्तदान्योन्यमब्रुवन्स्वमतान्युत 009c
ततः सन्धाय ते सर्वे वाक्यान्यथ समासतः 010a
एकस्मिन्ब्राह्मणे राजन्नावेश्योचुर्नराधिपम् 010c
ततः स्वचरणे वृद्धः सम्मतोऽर्थविशारदः 011a
साम्बाख्यो बह्वृचो राजन्वक्तुं समुपचक्रमे 011c
अनुमान्य महाराजं तत्सदः सम्प्रभाष्य च 012a
विप्रः प्रगल्भो मेधावी स राजानमुवाच ह 012c
राजन्वाक्यं जनस्यास्य मयि सर्वं समर्पितम् 013a
वक्ष्यामि तदहं वीर तज्जुषस्व नराधिप 013c
यथा वदसि राजेन्द्र सर्वमेतत्तथा विभो 014a
नात्र मिथ्या वचः किञ्चित्सुहृत्त्वं नः परस्परम् 014c
न जात्वस्य तु वंशस्य राज्ञां कश्चित्कदाचन 015a
राजासीद्यः प्रजापालः प्रजानामप्रियो भवेत् 015c
पितृवद्भ्रातृवच्चैव भवन्तः पालयन्ति नः 016a
न च दुर्योधनः किञ्चिदयुक्तं कृतवान्नृप 016c
यथा ब्रवीति धर्मज्ञो मुनिः सत्यवतीसुतः 017a
तथा कुरु महाराज स हि नः परमो गुरुः 017c
त्यक्ता वयं तु भवता दुःखशोकपरायणाः 018a
भविष्यामश्चिरं राजन्भवद्गुणशतैर्हृताः 018c
यथा शन्तनुना गुप्ता राज्ञा चित्राङ्गदेन च 019a
भीष्मवीर्योपगूढेन पित्रा च तव पार्थिव 019c
भवद्बुद्धियुजा चैव पाण्डुना पृथिवीक्षिता 020a
तथा दुर्योधनेनापि राज्ञा सुपरिपालिताः 020c
न स्वल्पमपि पुत्रस्ते व्यलीकं कृतवान्नृप 021a
पितरीव सुविश्वस्तास्तस्मिन्नपि नराधिपे 021c
वयमास्म यथा सम्यग्भवतो विदितं तथा 021e
तथा वर्षसहस्राय कुन्तीपुत्रेण धीमता 022a
पाल्यमाना धृतिमता सुखं विन्दामहे नृप 022c
राजर्षीणां पुराणानां भवतां वंशधारिणाम् 023a
कुरुसंवरणादीनां भरतस्य च धीमतः 023c
वृत्तं समनुयात्येष धर्मात्मा भूरिदक्षिणः 024a
नात्र वाच्यं महाराज सुसूक्ष्ममपि विद्यते 024c
उषिताः स्म सुखं नित्यं भवता परिपालिताः 025a
सुसूक्ष्मं च व्यलीकं ते सपुत्रस्य न विद्यते 025c
यत्तु ज्ञातिविमर्देऽस्मिन्नात्थ दुर्योधनं प्रति 026a
भवन्तमनुनेष्यामि तत्रापि कुरुनन्दन 026c