धृतराष्ट्र उवाच 001
शन्तनुः पालयामास यथावत्पृथिवीमिमाम् 001a
तथा विचित्रवीर्यश्च भीष्मेण परिपालितः 001c
पालयामास वस्तातो विदितं वो न संशयः 001e
यथा च पाण्डुर्भ्राता मे दयितो भवतामभूत् 002a
स चापि पालयामास यथावत्तच्च वेत्थ ह 002c
मया च भवतां सम्यक्छुश्रूषा या कृतानघाः 003a
असम्यग्वा महाभागास्तत्क्षन्तव्यमतन्द्रितैः 003c
यच्च दुर्योधनेनेदं राज्यं भुक्तमकण्टकम् 004a
अपि तत्र न वो मन्दो दुर्बुद्धिरपराद्धवान् 004c
तस्यापराधाद्दुर्बुद्धेरभिमानान्महीक्षिताम् 005a
विमर्दः सुमहानासीदनयान्मत्कृतादथ 005c
तन्मया साधु वापीदं यदि वासाधु वै कृतम् 006a
तद्वो हृदि न कर्तव्यं मामनुज्ञातुमर्हथ 006c
वृद्धोऽयं हतपुत्रोऽयं दुःखितोऽयं जनाधिपः 007a
पूर्वराज्ञां च पुत्रोऽयमिति कृत्वानुजानत 007c
इयं च कृपणा वृद्धा हतपुत्रा तपस्विनी 008a
गान्धारी पुत्रशोकार्ता तुल्यं याचति वो मया 008c
हतपुत्राविमौ वृद्धौ विदित्वा दुःखितौ तथा 009a
अनुजानीत भद्रं वो व्रजावः शरणं च वः 009c
अयं च कौरवो राजा कुन्तीपुत्रो युधिष्ठिरः 010a
सर्वैर्भवद्भिर्द्रष्टव्यः समेषु विषमेषु च 010c
न जातु विषमं चैव गमिष्यति कदाचन 010e
चत्वारः सचिवा यस्य भ्रातरो विपुलौजसः 011a
लोकपालोपमा ह्येते सर्वे धर्मार्थदर्शिनः 011c
ब्रह्मेव भगवानेष सर्वभूतजगत्पतिः 012a
युधिष्ठिरो महातेजा भवतः पालयिष्यति 012c
अवश्यमेव वक्तव्यमिति कृत्वा ब्रवीमि वः 013a
एष न्यासो मया दत्तः सर्वेषां वो युधिष्ठिरः 013c
भवन्तोऽस्य च वीरस्य न्यासभूता मया कृताः 013e
यद्येव तैः कृतं किञ्चिद्व्यलीकं वा सुतैर्मम 014a
यद्यन्येन मदीयेन तदनुज्ञातुमर्हथ 014c
भवद्भिर्हि न मे मन्युः कृतपूर्वः कथञ्चन 015a
अत्यन्तगुरुभक्तानामेषोऽञ्जलिरिदं नमः 015c
तेषामस्थिरबुद्धीनां लुब्धानां कामचारिणाम् 016a
कृते याचामि वः सर्वान्गान्धारीसहितोऽनघाः 016c
इत्युक्तास्तेन ते राज्ञा पौरजानपदा जनाः 017a
नोचुर्बाष्पकलाः किञ्चिद्वीक्षां चक्रुः परस्परम् 017c