युधिष्ठिर उवाच 001
एवमेतत्करिष्यामि यथात्थ पृथिवीपते 001a
भूयश्चैवानुशास्योऽहं भवता पार्थिवर्षभ 001c
भीष्मे स्वर्गमनुप्राप्ते गते च मधुसूदने 002a
विदुरे सञ्जये चैव कोऽन्यो मां वक्तुमर्हति 002c
यत्तु मामनुशास्तीह भवानद्य हिते स्थितः 003a
कर्तास्म्येतन्महीपाल निर्वृतो भव भारत 003c
वैशम्पायन उवाच 004
एवमुक्तः स राजर्षिर्धर्मराजेन धीमता 004a
कौन्तेयं समनुज्ञातुमियेष भरतर्षभ 004c
पुत्र विश्रम्यतां तावन्ममापि बलवाञ्श्रमः 005a
इत्युक्त्वा प्राविशद्राजा गान्धार्या भवनं तदा 005c
तमासनगतं देवी गान्धारी धर्मचारिणी 006a
उवाच काले कालज्ञा प्रजापतिसमं पतिम् 006c
अनुज्ञातः स्वयं तेन व्यासेनापि महर्षिणा 007a
युधिष्ठिरस्यानुमते कदारण्यं गमिष्यसि 007c
धृतराष्ट्र उवाच 008
गान्धार्यहमनुज्ञातः स्वयं पित्रा महात्मना 008a
युधिष्ठिरस्यानुमते गन्तास्मि नचिराद्वनम् 008c
अहं हि नाम सर्वेषां तेषां दुर्द्यूतदेविनाम् 009a
पुत्राणां दातुमिच्छामि प्रेत्यभावानुगं वसु 009c
सर्वप्रकृतिसान्निध्यं कारयित्वा स्ववेश्मनि 009e
वैशम्पायन उवाच 010
इत्युक्त्वा धर्मराजाय प्रेषयामास पार्थिवः 010a
स च तद्वचनात्सर्वं समानिन्ये महीपतिः 010c
ततो निष्क्रम्य नृपतिस्तस्मादन्तःपुरात्तदा 011a
सर्वं सुहृज्जनं चैव सर्वाश्च प्रकृतीस्तथा 011c
समवेतांश्च तान्सर्वान्पौरजानपदानथ 011e
ब्राह्मणांश्च महीपालान्नानादेशसमागतान् 012a
ततः प्राह महातेजा धृतराष्ट्रो महीपतिः 012c
शृण्वन्त्येकाग्रमनसो ब्राह्मणाः कुरुजाङ्गलाः 013a
क्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव समागताः 013c
भवन्तः कुरवश्चैव बहुकालं सहोषिताः 014a
परस्परस्य सुहृदः परस्परहिते रताः 014c
यदिदानीमहं ब्रूयामस्मिन्काल उपस्थिते 015a
तथा भवद्भिः कर्तव्यमविचार्य वचो मम 015c
अरण्यगमने बुद्धिर्गान्धारीसहितस्य मे 016a
व्यासस्यानुमते राज्ञस्तथा कुन्तीसुतस्य च 016c
भवन्तोऽप्यनुजानन्तु मा वोऽन्या भूद्विचारणा 016e
अस्माकं भवतां चैव येयं प्रीतिर्हि शाश्वती 017a
न चान्येष्वस्ति देशेषु राज्ञामिति मतिर्मम 017c
श्रान्तोऽस्मि वयसानेन तथा पुत्रविनाकृतः 018a
उपवासकृशश्चास्मिगान्धारीसहितोऽनघाः 018c
युधिष्ठिरगते राज्ये प्राप्तश्चास्मि सुखं महत् 019a
मन्ये दुर्योधनैश्वर्याद्विशिष्टमिति सत्तमाः 019c
मम त्वन्धस्य वृद्धस्य हतपुत्रस्य का गतिः 020a
ऋते वनं महाभागास्तन्मानुज्ञातुमर्हथ 020c
तस्य तद्वचनं श्रुत्वा सर्वे ते कुरुजाङ्गलाः 021a
बाष्पसन्दिग्धया वाचा रुरुदुर्भरतर्षभ 021c
तानविब्रुवतः किञ्चिद्दुःखशोकपरायणान् 022a
पुनरेव महातेजा धृतराष्ट्रोऽब्रवीदिदम् 022c