धृतराष्ट्र उवाच 001
सन्धिविग्रहमप्यत्र पश्येथा राजसत्तम 001a
द्वियोनिं त्रिविधोपायं बहुकल्पं युधिष्ठिर 001c
राजेन्द्र पर्युपासीथाश्छित्त्वा द्वैविध्यमात्मनः 002a
तुष्टपुष्टबलः शत्रुरात्मवानिति च स्मरेत् 002c
पर्युपासनकाले तु विपरीतं विधीयते 003a
आमर्दकाले राजेन्द्र व्यपसर्पस्ततो वरः 003c
व्यसनं भेदनं चैव शत्रूणां कारयेत्ततः 004a
कर्शनं भीषणं चैव युद्धे चापि बहुक्षयम् 004c
प्रयास्यमानो नृपतिस्त्रिविधं परिचिन्तयेत् 005a
आत्मनश्चैव शत्रोश्च शक्तिं शास्त्रविशारदः 005c
उत्साहप्रभुशक्तिभ्यां मन्त्रशक्त्या च भारत 006a
उपपन्नो नरो यायाद्विपरीतमतोऽन्यथा 006c
आददीत बलं राजा मौलं मित्रबलं तथा 007a
अटवीबलं भृतं चैव तथा श्रेणीबलं च यत् 007c
तत्र मित्रबलं राजन्मौलेन न विशिष्यते 008a
श्रेणीबलं भृतं चैव तुल्य एवेति मे मतिः 008c
तथा चारबलं चैव परस्परसमं नृप 009a
विज्ञेयं बलकालेषु राज्ञा काल उपस्थिते 009c
आपदश्चापि बोद्धव्या बहुरूपा नराधिप 010a
भवन्ति राज्ञां कौरव्य यास्ताः पृथगतः शृणु 010c
विकल्पा बहवो राजन्नापदां पाण्डुनन्दन 011a
सामादिभिरुपन्यस्य शमयेत्तान्नृपः सदा 011c
यात्रां यायाद्बलैर्युक्तो राजा षड्भिः परन्तप 012a
संयुक्तो देशकालाभ्यां बलैरात्मगुणैस्तथा 012c
तुष्टपुष्टबलो यायाद्राजा वृद्ध्युदये रतः 013a
आहूतश्चाप्यथो यायादनृतावपि पार्थिवः 013c
स्थूणाश्मानं वाजिरथप्रधानां ध्वजद्रुमैः संवृतकूलरोधसम् 014a
पदातिनागैर्बहुकर्दमां नदीं सपत्ननाशे नृपतिः प्रयायात् 014c
अथोपपत्त्या शकटं पद्मं वज्रं च भारत 015a
उशना वेद यच्छास्त्रं तत्रैतद्विहितं विभो 015c
सादयित्वा परबलं कृत्वा च बलहर्षणम् 016a
स्वभूमौ योजयेद्युद्धं परभूमौ तथैव च 016c
लब्धं प्रशमयेद्राजा निक्षिपेद्धनिनो नरान् 017a
ज्ञात्वा स्वविषयं तं च सामादिभिरुपक्रमेत् 017c
सर्वथैव महाराज शरीरं धारयेदिह 018a
प्रेत्येह चैव कर्तव्यमात्मनिःश्रेयसं परम् 018c
एवं कुर्वञ्शुभा वाचो लोकेऽस्मिञ्शृणुते नृपः 019a
प्रेत्य स्वर्गं तथाप्नोति प्रजा धर्मेण पालयन् 019c
एवं त्वया कुरुश्रेष्ठ वर्तितव्यं प्रजाहितम् 020a
उभयोर्लोकयोस्तात प्राप्तये नित्यमेव च 020c
भीष्मेण पूर्वमुक्तोऽसि कृष्णेन विदुरेण च 021a
मयाप्यवश्यं वक्तव्यं प्रीत्या ते नृपसत्तम 021c
एतत्सर्वं यथान्यायं कुर्वीथा भूरिदक्षिण 022a
प्रियस्तथा प्रजानां त्वं स्वर्गे सुखमवाप्स्यसि 022c
अश्वमेधसहस्रेण यो यजेत्पृथिवीपतिः 023a
पालयेद्वापि धर्मेण प्रजास्तुल्यं फलं लभेत् 023c