धृतराष्ट्र उवाच 001
मण्डलानि च बुध्येथाः परेषामात्मनस्तथा 001a
उदासीनगुणानां च मध्यमानां तथैव च 001c
चतुर्णां शत्रुजातानां सर्वेषामाततायिनाम् 002a
मित्रं चामित्रमित्रं च बोद्धव्यं तेऽरिकर्शन 002c
तथामात्या जनपदा दुर्गाणि विषमाणि च 003a
बलानि च कुरुश्रेष्ठ भवन्त्येषां यथेच्छकम् 003c
ते च द्वादश कौन्तेय राज्ञां वै विविधात्मकाः 004a
मन्त्रिप्रधानाश्च गुणाः षष्टिर्द्वादश च प्रभो 004c
एतन्मण्डलमित्याहुराचार्या नीतिकोविदाः 005a
अत्र षाड्गुण्यमायत्तं युधिष्ठिर निबोध तत् 005c
वृद्धिक्षयौ च विज्ञेयौ स्थानं च कुरुनन्दन 006a
द्विसप्तत्या महाबाहो ततः षाड्गुण्यचारिणः 006c
यदा स्वपक्षो बलवान्परपक्षस्तथाबलः 007a
विगृह्य शत्रून्कौन्तेय यायात्क्षितिपतिस्तदा 007c
यदा स्वपक्षोऽबलवांस्तदा सन्धिं समाश्रयेत् 007e
द्रव्याणां सञ्चयश्चैव कर्तव्यः स्यान्महांस्तथा 008a
यदा समर्थो यानाय नचिरेणैव भारत 008c
तदा सर्वं विधेयं स्यात्स्थानं च न विभाजयेत् 009a
भूमिरल्पफला देया विपरीतस्य भारत 009c
हिरण्यं कुप्यभूयिष्ठं मित्रं क्षीणमकोशवत् 010a
विपरीतान्न गृह्णीयात्स्वयं सन्धिविशारदः 010c
सन्ध्यर्थं राजपुत्रं च लिप्सेथा भरतर्षभ 011a
विपरीतस्तु तेऽदेयः पुत्र कस्याञ्चिदापदि 011c
तस्य प्रमोक्षे यत्नं च कुर्याः सोपायमन्त्रवित् 011e
प्रकृतीनां च कौन्तेय राजा दीनां विभावयेत् 012a
क्रमेण युगपद्द्वन्द्वं व्यसनानां बलाबलम् 012c
पीडनं स्तम्भनं चैव कोशभङ्गस्तथैव च 013a
कार्यं यत्नेन शत्रूणां स्वराष्ट्रं रक्षता स्वयम् 013c
न च हिंस्योऽभ्युपगतः सामन्तो वृद्धिमिच्छता 014a
कौन्तेय तं न हिंसेत यो महीं विजिगीषते 014c
गणानां भेदने योगं गच्छेथाः सह मन्त्रिभिः 015a
साधुसङ्ग्रहणाच्चैव पापनिग्रहणात्तथा 015c
दुर्बलाश्चापि सततं नावष्टभ्या बलीयसा 016a
तिष्ठेथा राजशार्दूल वैतसीं वृत्तिमास्थितः 016c
यद्येवमभियायाच्च दुर्बलं बलवान्नृपः 017a
सामादिभिरुपायैस्तं क्रमेण विनिवर्तयेत् 017c
अशक्नुवंस्तु युद्धाय निष्पतेत्सह मन्त्रिभिः 018a
कोशेन पौरैर्दण्डेन ये चान्ये प्रियकारिणः 018c
असम्भवे तु सर्वस्य यथामुख्येन निष्पतेत् 019a
क्रमेणानेन मोक्षः स्याच्छरीरमपि केवलम् 019c