धृतराष्ट्र उवाच 001
व्यवहाराश्च ते तात नित्यमाप्तैरधिष्ठिताः 001a
योज्यास्तुष्टैर्हितै राजन्नित्यं चारैरनुष्ठिताः 001c
परिमाणं विदित्वा च दण्डं दण्ड्येषु भारत 002a
प्रणयेयुर्यथान्यायं पुरुषास्ते युधिष्ठिर 002c
आदानरुचयश्चैव परदाराभिमर्शकाः 003a
उग्रदण्डप्रधानाश्च मिथ्या व्याहारिणस्तथा 003c
आक्रोष्टारश्च लुब्धाश्च हन्तारः साहसप्रियाः 004a
सभाविहारभेत्तारो वर्णानां च प्रदूषकाः 004c
हिरण्यदण्ड्या वध्याश्च कर्तव्या देशकालतः 004e
प्रातरेव हि पश्येथा ये कुर्युर्व्ययकर्म ते 005a
अलङ्कारमथो भोज्यमत ऊर्ध्वं समाचरेः 005c
पश्येथाश्च ततो योधान्सदा त्वं परिहर्षयन् 006a
दूतानां च चराणां च प्रदोषस्ते सदा भवेत् 006c
सदा चापररात्रं ते भवेत्कार्यार्थनिर्णये 007a
मध्यरात्रे विहारस्ते मध्याह्ने च सदा भवेत् 007c
सर्वे त्वात्ययिकाः कालाः कार्याणां भरतर्षभ 008a
तथैवालङ्कृतः काले तिष्ठेथा भूरिदक्षिणः 008c
चक्रवत्कर्मणां तात पर्यायो ह्येष नित्यशः 008e
कोशस्य सञ्चये यत्नं कुर्वीथा न्यायतः सदा 009a
द्विविधस्य महाराज विपरीतं विवर्जयेः 009c
चारैर्विदित्वा शत्रूंश्च ये ते राज्यान्तरायिणः 010a
तानाप्तैः पुरुषैर्दूराद्घातयेथाः परस्परम् 010c
कर्मदृष्ट्याथ भृत्यांस्त्वं वरयेथाः कुरूद्वह 011a
कारयेथाश्च कर्माणि युक्तायुक्तैरधिष्ठितैः 011c
सेनाप्रणेता च भवेत्तव तात दृढव्रतः 012a
शूरः क्लेशसहश्चैव प्रियश्च तव मानवः 012c
सर्वे जानपदाश्चैव तव कर्माणि पाण्डव 013a
पौरोगवाश्च सभ्याश्च कुर्युर्ये व्यवहारिणः 013c
स्वरन्ध्रं पररन्ध्रं च स्वेषु चैव परेषु च 014a
उपलक्षयितव्यं ते नित्यमेव युधिष्ठिर 014c
देशान्तरस्थाश्च नरा विक्रान्ताः सर्वकर्मसु 015a
मात्राभिरनुरूपाभिरनुग्राह्या हितास्त्वया 015c
गुणार्थिनां गुणः कार्यो विदुषां ते जनाधिप 016a
अविचाल्याश्च ते ते स्युर्यथा मेरुर्महागिरिः 016c