वैशम्पायन उवाच 001
ततो राज्ञाभ्यनुज्ञातो धृतराष्ट्रः प्रतापवान् 001a
ययौ स्वभवनं राजा गान्धार्यानुगतस्तदा 001c
मन्दप्राणगतिर्धीमान्कृच्छ्रादिव समुद्धरन् 002a
पदातिः स महीपालो जीर्णो गजपतिर्यथा 002c
तमन्वगच्छद्विदुरो विद्वान्सूतश्च सञ्जयः 003a
स चापि परमेष्वासः कृपः शारद्वतस्तथा 003c
स प्रविश्य गृहं राजा कृतपूर्वाह्णिकक्रियः 004a
तर्पयित्वा द्विजश्रेष्ठानाहारमकरोत्तदा 004c
गान्धारी चैव धर्मज्ञा कुन्त्या सह मनस्विनी 005a
वधूभिरुपचारेण पूजिताभुङ्क्त भारत 005c
कृताहारं कृताहाराः सर्वे ते विदुरादयः 006a
पाण्डवाश्च कुरुश्रेष्ठमुपातिष्ठन्त तं नृपम् 006c
ततोऽब्रवीन्महाराज कुन्तीपुत्रमुपह्वरे 007a
निषण्णं पाणिना पृष्ठे संस्पृशन्नम्बिकासुतः 007c
अप्रमादस्त्वया कार्यः सर्वथा कुरुनन्दन 008a
अष्टाङ्गे राजशार्दूल राज्ये धर्मपुरस्कृते 008c
तत्तु शक्यं यथा तात रक्षितुं पाण्डुनन्दन 009a
राज्यं धर्मं च कौन्तेय विद्वानसि निबोध तत् 009c
विद्यावृद्धान्सदैव त्वमुपासीथा युधिष्ठिर 010a
शृणुयास्ते च यद्ब्रूयुः कुर्याश्चैवाविचारयन् 010c
प्रातरुत्थाय तान्राजन्पूजयित्वा यथाविधि 011a
कृत्यकाले समुत्पन्ने पृच्छेथाः कार्यमात्मनः 011c
ते तु सम्मानिता राजंस्त्वया राज्यहितार्थिना 012a
प्रवक्ष्यन्ति हितं तात सर्वं कौरवनन्दन 012c
इन्द्रियाणि च सर्वाणि वाजिवत्परिपालय 013a
हिताय वै भविष्यन्ति रक्षितं द्रविणं यथा 013c
अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन् 014a
दान्तान्कर्मसु सर्वेषु मुख्यान्मुख्येषु योजयेः 014c
चारयेथाश्च सततं चारैरविदितैः परान् 015a
परीक्षितैर्बहुविधं स्वराष्ट्रेषु परेषु च 015c
पुरं च ते सुगुप्तं स्याद्दृढप्राकारतोरणम् 016a
अट्टाट्टालकसम्बाधं षट्पथं सर्वतोदिशम् 016c
तस्य द्वाराणि कार्याणि पर्याप्तानि बृहन्ति च 017a
सर्वतः सुविभक्तानि यन्त्रैरारक्षितानि च 017c
पुरुषैरलमर्थज्ञैर्विदितैः कुलशीलतः 018a
आत्मा च रक्ष्यः सततं भोजनादिषु भारत 018c
विहाराहारकालेषु माल्यशय्यासनेषु च 019a
स्त्रियश्च ते सुगुप्ताः स्युर्वृद्धैराप्तैरधिष्ठिताः 019c
शीलवद्भिः कुलीनैश्च विद्वद्भिश्च युधिष्ठिर 019e
मन्त्रिणश्चैव कुर्वीथा द्विजान्विद्याविशारदान् 020a
विनीतांश्च कुलीनांश्च धर्मार्थकुशलानृजून् 020c
तैः सार्धं मन्त्रयेथास्त्वं नात्यर्थं बहुभिः सह 021a
समस्तैरपि च व्यस्तैर्व्यपदेशेन केनचित् 021c
सुसंवृतं मन्त्रगृहं स्थलं चारुह्य मन्त्रयेः 022a
अरण्ये निःशलाके वा न च रात्रौ कथञ्चन 022c
वानराः पक्षिणश्चैव ये मनुष्यानुकारिणः 023a
सर्वे मन्त्रगृहे वर्ज्या ये चापि जडपङ्गुकाः 023c
मन्त्रभेदे हि ये दोषा भवन्ति पृथिवीक्षिताम् 024a
न ते शक्याः समाधातुं कथञ्चिदिति मे मतिः 024c
दोषांश्च मन्त्रभेदेषु ब्रूयास्त्वं मन्त्रिमण्डले 025a
अभेदे च गुणान्राजन्पुनः पुनररिन्दम 025c
पौरजानपदानां च शौचाशौचं युधिष्ठिर 026a
यथा स्याद्विदितं राजंस्तथा कार्यमरिन्दम 026c